________________
Shri Mahavir Jain Aradhana Kendra
**************************
www.kobatirth.org
| प्रस्तावना ॥
-**--
श्री गूर्जर धराधीशदुर्लभराजसभासमुद्रोल्लासनचंद्रमसा श्री चांद्रकुलावतंसेन सुविहितवसतिमार्गप्रवर्त्तकेन खरतरविरुदधारकेण विद्वज्जनचक्रवाकनयनानंदनेन श्रीजिनेश्वरसूरिणा सकलभव्योपकाराय षट्स्थानकाख्यं प्रकरणं विरचितमिदम् ।
अस्य प्रकरणग्रंथस्य विनिर्मातारः श्रीमज्जिनेश्वरसूरयः केषां विनेयावतंसा आसन् ? कस्मिन् समये खरतरबिरुदं समासादितवन्तः १ काँस्काँश्च निर्मितवन्तो ग्रंथान १ कदा कतमान् स्वपादपद्मपरागेण जनपदान् मंडयामासुः ? इति जिज्ञासायां संक्षेपाद छात्र परिचय दीयते, उपदेशपट्टीकी कारकाणां अर्बुदाचल जिनचैत्यवृषभ जिनप्रतिष्ठापकाणां श्रीजिनवर्धमान सूरीश्वराणां सुकुमारपादकमलेषु श्रीजिनेश्वरसूरयः तेषां लघुभ्रातरो बुद्धिसागराचार्याः संसारसागरतरणपोतं दीक्षां जगृहु:, ततः अल्पसमयेन सर्वसिद्धान्तमवगाह्य पदर्शनशास्त्रपारगा जाता, अन्यदा श्रीवर्धमानसूरयः श्रीजिनेश्वर बुद्धिसागरायष्टादश- साधुभिः परिवृता भूमंडले विहतः क्रमशो गुर्जरराष्ट्रे श्रीपत्तननगरं गतवंतः तत्र च जिनगृहनिवासलंपटाः चैत्यवासिसूराचार्याः आसन्, तैश्चैत्यवासिभिच देशांतरागतमुनीनां वसतिमार्गविरोधाय स्वमंतव्य समर्थनाय च वादाय ते श्रीजिनेश्वरसूरयः उत्तेजिताः, तदानीं श्रीचौलुक्य१ हारिभद्रीयोपदेशपदीका प्रशस्तिप्रान्त
जिनवचनविचारे नित्यमाश (स) क्तयोगे । सुबिमलगुणरंधेः वर्धमानद्रद्रः ॥
इयमुपदेशपदानां टीका रचिता जनावबोधाय । पंचाधिकपंचाशयुक्ते १००५ संवत्सरसहये ॥ ( जे भां० सू० )
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
469***+6