________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रागादेरेव च सम्यग्ज्ञानं प्रति महावरणत्वात् , तस्य च जलदपटलस्येवात्यन्तामावे मास्वन्मण्डलस्येव तस्य सार्वज्ञरूपं सर्वप्रकाशकत्वमपि प्रमाणसिद्धमेवेति युक्तमस्य निर्दोषत्वात्सर्वातिशायित्वाच्चाराध्यतमत्वम् । इति गाथार्थः ॥ १८ ॥
देवस्वरूपप्रश्नानन्तरमत्यन्तधर्मस्पृहयालोधर्मप्रश्ने सति तदुत्तरे वक्तव्येऽपि तदुलपय " समाराधितो धुपदेष्टा सम्यगुपदिशति" इति न्यायमभिसंधाय देवस्वरूपाभिधानानन्तरमेव तदाराधनोपायप्रश्नस्योत्तरमुक्तवान् युक्तिज्ञतयाऽऽचार्यः । तत्राप्यस्य वीतरागत्वात्पूजादिनाऽऽराधनासंभवात् क भाराधनोपायः ? इत्याशयवतस्तदाराधनोपायप्रश्ने प्रत्युत्तरमाहतस्साराहणमेयं, तव्वयणाराहणं ति निच्छयओ। संसारवाहिहरणं, आसवदाराण पडिलोमं ॥१६॥
व्याख्या-'तस्य' वीतरागस्य 'आराधन' प्रसादनं एतत् अनन्तरमेव वक्ष्यमाणं, तदेवाह-निश्चयतः' निश्चयनयमाश्रित्य 'तद्वचनाराधनमिति' तदाज्ञासम्यगासेवनम् , तेन-'व्यवहारनयतोऽन्यदप्यस्तु अतात्त्विकत्वाद्, न तु तत्परमार्थतः माराधनम्' इत्येतत् इति शब्देनाराधनोपायप्रकारोपदर्शकेन व्यनक्ति । अयमभिप्रायः-यद्यप्यस्य राजादेखि मनःप्रसादनलघणमाराधनं न संभवति वीतरागत्वात् , तथाप्येतद्वचनाराधकानां राजादिप्रसादनमिव प्रसादकार्यमहापदलामोपलम्भात् प्रसादनोपचारः । प्रसादनं च द्वेधा, व्यवहारतो निश्चयतश्च । पुनरेतद् द्वयमपि द्रव्यभावार्चनभेदाद् द्विधा । तत्र यत् त्रिसन्ध्यं विशिष्टभावविकलैलौकिकैरिव खात्रवलिमहाप्रेक्षणकादिभिराराधनं तद् व्यवहारतो द्रव्यार्चनम् , भावार्चनाऽहेतुत्वे
For Private and Personal Use Only