________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम् ॥११॥
प्रथम स्थानम्
तदुक्तम्- "रुद्रो रागवशात् स्त्रियं वहति यो हिंस्रो दयावर्जितो, विष्णुः क्रूरतरः कृतघ्नचरितः स्कन्दः स्वयं ज्ञातिहा । क्रूरार्या महिपान्तकृन्नरवसामांसास्थिकामातुरा, यानेच्छश्च विनायको जिनवरे स्वल्पोऽपि दोषोऽस्ति का ? ॥१॥” तथा जीवान मारयतीति कथं नु स देव इति च पूर्ववद्वयाख्येयम्, भावनीयं च । भत्र च जीवभक्षणवधाभिधायिनी तेषामेवं श्रुतिः-"शशकः शल्लकी गोधा, कूर्मः खड्गी च पश्चमः । पञ्च पञ्चनखा भक्ष्याः" इत्यादि । एवं च कथं तेषामेवं वैशसकर्मकारणोपदेशसमुद्यतानां देवत्वमूलनिवन्धनं कारुण्यम् ? । कारुण्याभावव्यञ्जकं सुप्रसिद्धमेवैषां प्राणिघातकत्वम् । तथाहि"पंचिंदितणुसमुत्थं, महइ सचित्तं पि मंसपेसिं जो । पत्तपडियं न दूसइ, कारुणिमो सो कहं बुद्धो १ ॥१॥ निच्च न्हाणविहाणं, जलगयभस्संखजियगुरुघरहूं | धम्मस्थमुवइसंतो, कारुणिो होइ कह कविलो ॥२॥ भट्टो भग्गमरट्टो, जामो करुणापरायणसभासु । निग्घिणनरपसुमेहं, वेयपवुत्तं पवतो ॥३॥ कणभक्खअक्खपाया, पावं नरमेहहोममाईयं । रुहुत्तं ति कुणता, कह करुणासायरा इंतु ॥ ४ ॥ कावालियावि नरसिर-कवालहत्था करालभूइला । हिययलुलियढिमाला, |
१ पश्चेन्द्रियतनुसमुत्था, कांक्षति सचित्तामपि मांसपेशी यः । पात्रपतितां न दुष्यति कारुणिकः स कथं बुद्धः ॥ २ नित्यं स्नानविधानं, जलगतासंख्यजीवगुरुघरट्टम् । धर्मार्थमुपदिशन् , कारुणिको भवति कथं कपिलः ॥ ३ भट्टो भग्नमानो, जातः करुणापरायणसभासु । निपुणनरपशुमेधं, वेदप्रोक्तं प्रवर्तयन् ।। ४ कणभक्षाक्षपादौ, पापं नरमेधहोमादिकम् । रुद्रोक्तमिति कुर्वन्तौ, कथं करुणासागरौ भवताम् ॥ ५ कापालिका अपि नरशिरः-कपालहस्ताः करालभूतिमन्तः । हृदयललितास्थिमाला, दयालुकाः कथं रुद्रमताः ॥
For Private and Personal use only