________________
Shri Mahavir Jain Aradhana Kendra
14193+******+*
www.kobatirth.org
तदेवं कामचेष्टितं तत्फलं चाभिधायाऽथ रागवतोऽदेवस्वमापादयिष्यन् सर्वजन साधारण चरितत्वमाह-सव्वे विहु जइ जीवा, मेहुणसन्नाय हंदि वहंति । साहारणम्मि चरिए, कह देवो होइ अब्भहिओ ७ व्याख्या--'सर्वेऽपि ' समस्ता अपि न तु केचिदेवत्यपिशब्दार्थः । 'हु:' एवकारार्थ: । यदीत्यभ्युपगमे । 'यदि' चेत् ' जीवाः ' प्राणिन एकेन्द्रियादयः पश्चेन्द्रियान्ताः 'मैथुनसंज्ञायां ' मोहवेदोदय संपाद्याध्यवसायविशेषरूपायां, इन्दीत्युपदर्शने, दृष्टमेतदित्यर्थः, ' वर्तन्ते ' प्रवृत्तिं कुर्वन्त्येव । तत्र संज्ञिपश्चेन्द्रियाणां तावचत्र प्रवृत्तिः स्फुटप्रतीतिरेव । एकेन्द्रियायामव्यक्तसंज्ञानामप्यशोकच कुलादीनां वनस्पतिविशेषाणां रणन्नूपुरतरुखीचरणताडनमुखा सवप्रचेपादिविधानतो हर्षविशेषजन्य पुष्पोद्गमोपलम्भादनुमीयते । तद्द्दृष्टान्तेन पृथिव्यादीनामपि । तथा च रागवतो देवस्यापि मैथुनेप्रवृत्तौ ' साधारणे ' सर्वप्राणिनां समाने ' चरिते ' चेष्टिते सति कथं केन प्रकारेण ' देवः पूज्यतमः ' भवति ' संपद्यते ' अभ्यधिकः ' शेषप्राणिभ्यो ऽत्यन्तमुत्कृष्टः १ न कथश्चिदित्यर्थः, उत्कर्षदेतो रागाभावस्य सर्वथाप्यभावात् । इति गाथार्थः ॥ ७ ॥
सांप्रतं सर्वजनसमानचरितत्वेन रागिखो देवत्वाभावमुपदर्शयंस्तद्रहितस्य देवत्वमुपसंहरन्नाह
जइ सो विसमाणगुणो, लोगेणं तस्स तारगो कह णु । तम्हा रागविमुक्को, देवो पडिवज्जियव्वोत्ति ८
१' मैथुने प्रवृत्तौ ' इत्यपि प्रत्यन्तरे ।
R
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
**********************