________________
Shri Mahavir Jain Aradhana Kendra
******
१०
www.kobatirth.org
हाइ भोगकाले, मुहसुद्धिं कारवेइ वेसित्थि । उल्लवइ न सब्भावं, इत्थीपुरओ सयाकालं ॥ १९ ॥
,
व्याख्या - धर्मे तावदुक्तं कौशलम् । 'अर्थे ' द्रव्ये पुनरेतत्कौशलं यदतिपतितवेश्च्चकगृहीतत्वादिना अवन्ध्यम् अवश्यं भाविफलं लाभलक्षणं यस्मात्तदवन्ध्यफलदम्, ततोऽवन्ध्यं च तत् फलदं चेति कर्मधारयः । ' स' इति श्रावकः, — धारयति ' भाण्डशालादिषु स्थापयति, ' भाण्डं ' कुङ्कुम-मञ्जिष्ठादिद्रव्यम् । श्रयं भावः - स्वमतिमाहात्म्याद् मतिमत्परममित्रादिवचनाद्वा भाण्डं सम्यक्परीक्ष्यैव तद्धारयति यद् बहुफलं भवति, इत्येतद् अर्थव्यवहारकौशलम् । 'कामे ' संभोगव्यवहारविषये पुनरेतत्कौशलं यद् ' अनुनयति ' साम-दानादिना प्रसादयति ' प्रियां भार्या ' प्रयत्नेन ' आदरेण, अन्यथा तु गृहवासो धर्मानुष्ठाननिष्ठ निरन्तर चिन्तासारोऽपि दुःखखनिरेव स्यात् । तथा च पठ्यते - " अहिरण्यमदासीकं गृहं गोरसवर्जितम् । प्रतिकूलकलत्रं च नरकस्यापरो विधिः " ॥ १ ॥ इति । तथा-' स्नपयति स्नानं कारयति ' भोगकाले ' भाविसुरतसमये, अनेन बहिः शुद्धिरुक्ता, अन्यस्या अप्येवंविधाया उपलक्षणार्थम् । तथा ' मुखशुद्धि ' गण्डूषादिना वदनशोधनं कारयति, अनेन चाऽन्तःशुद्धिः । उभयं चैतत् कार्मणादिनिमित्तयो गवर्णविलेपनगुलिका दिशङ्काऽपनोदाय विधाप्यते । ' वेश्यास्त्रियं ' साधारणयोषितम् । अत्र च साधारणस्त्रियोऽपि प्रसादनादिविधानोपदर्शनेन भावकौशलेऽपि कलत्र वेश्यानां भावपरिज्ञानाभिधानेन परस्त्रियः सर्वथा त्याग एव श्राद्धस्यति सूचितम् ।' उल्लपति ' विश्वासवशेन प्रभाषते 'न' नैव ' सद्भावं ' रहस्यवस्तु 'स्त्रीणां '
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
←*********************