________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
पाठ स्थानस
॥४६॥
द्युत्कृष्टं मूल्येन गृह्णाति, स्वद्रम्मादींश्च मून्यरूपाद् हीनान् ददाति, तदपि पुंभकम् । इति गाथार्थः ॥ १६ ।।
प्रथोपदेशमाह| एवं पुंभंन कुणइ, सक्खा वजइ किमिह चुजं तु। वड्डेइ य तहव्वं. विसुद्धभावो सयाकालं ॥ १७॥
व्याख्या-एतत्पूर्वोक्तप्रकारं पुम्भकमपि न करोति' न विधत्ते श्राद्धः ' साचाद् ' अव्यवधानेन पुनस्तद्रव्यमिति योगः। 'वर्जयति ' परिहरति, इत्येतत्किमिह प्रवचने ' आश्चर्यम् ' अद्भुतं न किश्चिदित्यर्थः । “देवस्सपरीमोगो भणंतजम्मेसु दारुणविवागो" इत्यादि जानन् कथं सकर्णः साक्षात् पारम्पर्येण वा तदुपभुञ्जीतेति । 'वर्द्धयति च' सुस्थानकलान्तरप्रयोगादिना वृद्धिं च नयति तद्र्व्यं ' जिनादिद्रविणं 'विशुद्ध भावो' निराशंसमानसः 'सदाकालं' सर्वदा । इह च सदाशब्दोपादानादेव शश्वद्वर्धने लब्धे कालशब्दोपादानं तदृद्धेरत्यन्तविधेयताप्रतिपादनार्थ, चशब्दाद् रचति चेति द्रष्टव्यम् । “ जिणपवयणबुद्धिकरं, पभावगं नाण-दसणगुणाणं । रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ " ॥१॥ तथा-"वटुंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो"। इत्यादि तद्रव्यरक्षणादिफलं जानन् यो रचति वर्धयति चाऽसौ धर्मव्यवहारकौशलवान् । इति गाथार्थः ॥ १७ ॥
अथ धर्मफलत्वादर्थ-कामयोस्तत्रापि कामसाधकतमत्वादर्थस्य पूर्व तत्कौशलं ततः कामकौशलं च गाथाद्वयेनाहअत्थे पुण कोसल्लं, अवंझफलयं धरेइ सोभंडं। कामे पुण कोसल्लं, अणुणेइ पियं पयत्तेणं ॥१८॥
॥४६॥
For Private and Personal Use Only