________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
षष्ठ
॥४५॥
एवमर्थकामव्यवहारयोराप । लोकव्यवहारस्तु शिष्टसमाचार एव । तत्रापि चशब्दो समुच्चयायौँ, तत्रापि प्रथमं तावत्प्राधान्याद्धर्मव्यवहारकौशलमाह- धर्मे' पदसमुदाये पदस्योपचाराद्धर्मव्यवहारकौशलमिति योगः। 'कुतीर्थिनां ' शाक्यभूत-दिगम्बर-वित्रादीनां 'वर्जनं ' तत्पूर्वालाप-प्रणाम-दानाऽनुप्रदानादिसंसर्गादीनां तद्देवतानां च तदुपदिष्टश्राद्ध-पिण्डप्रदानादीनां च परिहारेण सर्वथोत्सर्जनं, तसंसर्गादेरतीचारत्वेन सम्यक्त्वस्य मालिन्यहेतुत्वात् । 'कुतीथिंबिम्बाना' तदाराध्यहरि-हरादिप्रतिमानां विक्रयणस्य वर्जनमिति संबन्धः, षष्ठ्यर्थे द्वितीया प्राकृतत्वात् । यदा चैतान्यपि न विक्रीणीते तदा जिनविम्बविक्रयो दुरापास्त एव, सर्वप्रकाराराध्यजिनविम्बविक्रयणार्थलामस्य तत्वतो महाऽनर्थलामरूपत्वात् इति गाथार्थः ॥ १४ ॥
तथावजेइ चेइयालय-दव्वं अंगोवरिम्मि उद्धारं । साहारणं च एवं, जाउ से घुभयं लेइ ॥१५॥
व्याख्या-'वर्जयति ' परिहरति 'चैत्यालयद्रव्यं ' देवगृहसमुद्कादिद्रविणम् , 'अनोपयुद्धारम्' इति प्रागुक्तार्थम् तथा गृहीत्वा नो भुत इत्यर्थः । ' साधारणं च' तथाविधापद्गतसाधर्मिकाघुपमोगयोग्यतया तुल्यं च द्रव्यं यत्तदप्येवं जिनद्रव्यवनानोपयुद्धारं गृहाति, देवद्रव्य-साधारणद्रव्ययोहि वर्धनादौ शास्त्र तुल्यत्वश्रुतेरियमुक्तिः। तथा चोक्तम् "देवस्सं नाणदव्वं च, साहारणधणं तहा । सावएहिं तिहा काउं, नेयवं वुडिमायरा"॥१॥ तथा-" चेइयदव्वं साहा-रणं च जो
॥४५॥
For Private and Personal use only