________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अप्येतौ मोक्ष इत्युक्तम् । ' समासतः ' समस्तत्वेन आसेवनामपेक्ष्य स्वस्त्रकालयोः संघटितत्वेन । यदि तु सर्वसाधुरुत्सर्गेणैव केवलेन सर्वदा प्रवर्तेतं तदा दुरवस्थानामवश्यंभावित्वात् संहननानामदृढत्वाद् भायुषां सोपक्रमत्वेनाऽऽत्मनः परिणामानामपि चञ्चलत्वात् तीर्थस्यापि नाऽनुवृत्तिः स्यादित्यर्थः । एतदुक्तं भवति-सर्वज्ञो हि परमाप्तत्वान कस्याप्यहितवादी, स चोत्सर्गापवादयोस्तत्तदवस्थादिविशेषेऽनुष्ठीयमानयोरपवर्गहेतुत्वमवगम्य तथैव प्रणीतवान् । न चैतदनुपपत्तिकम् , अवस्थाविशेषे रोगिणः कटुकौषधाद्युपभोगवद् प्राधाकर्मिकादिभोगस्यापि संयमशरीरोपष्टम्मकत्वेन हितहेतुत्वात् , तञ्जन्यपातकस्य तु पश्चात् प्रायश्चित्तादिना सुखशोध्यत्वात् । पुष्टाङ्गस्य तु निनिमित्तं तदुपभोगः केवलं लौन्यमाविर्भावयन हितहेतुः । इत्यशठेन स्वस्वकाल एवैतदनुष्ठानादवश्यं मोचः प्राप्यत एवेति न कश्चिद्विरोधः । एवमनयोः स्वरूप-फलविज्ञान पूर्वक मिथं पूर्वोक्तयुक्त्या परस्परसंघटिताप्राप्तयोः सेव्यत्वेन सन्निहितीभूतयोरासेवनमनुष्ठानं यत्तत् कौशलं नैपुणमत्र इत्युत्सर्गापवादयोातव्यं-बोद्धव्यं श्रावकेण । इति गाथात्रयार्थः ॥ ११-१२-१३ ।। ___उक्त समाचारविशेषरूपोत्सर्गापवादकौशले । अथ समाचारसामान्यरूपव्यवहारकौशलमाहववहारे कोसल्लं, धम्मे अत्थे य काम लोगे य। धम्मे कुतिस्थिवजण, कुतिस्थिबिंबाण विक्किणणं ॥१४॥ ___ व्याख्या-शिष्टजनाऽनिन्द्यः समाचारो व्यवहारः, तत्र 'कौशलं' तज्ज्ञानपूर्वक प्रवृत्तिनैपुणम् । तच विषयभेदाच्चतुर्धा, ते च विषया धर्मादयः प्रतीतस्वरूपा एव । ततश्च 'धर्मे 'सुकृते तत्सावने च विषयभूते यो व्यवहारस्वत्र ।
For Private and Personal Use Only