________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SRKERSHESAR
हादिना तत्फलसम्यक्त्वामाप्त्या मिथ्यात्वं न यात्येवेति तात्पर्यायः ॥ २५ ॥ जिनगुणरत्नमहानिधि प्राप्यापीत्यादिना जिनागमप्राप्तावपि गुरुकर्मणां सम्यक्त्वादिदौलभ्यमुक्तं तावता वाजिनागमस्य सम्यक्त्वादिधर्मसाधनत्वं प्रतिपा-- दितं प्रागधुना जिनोपदिष्टपर्वणामपि धर्मसाधनत्वमाह
मुलम-सो जयइ जेण विहिया संवच्छरचाउमासियसपव्वा ।
निबंधसाण जाइ जेसिं पभावओ धम्ममई ॥ २६ ॥ व्याख्या-स इति प्रक्रमाज्जिनो जयति जययुक्तोस्तु स इति क इति यच्छब्देनाह--येन भगवताऽनुपकृतोपकारिणा विहितानि निर्मितानि । कानीत्याह--सांवत्सरिकचातुर्मासिकसुपर्वाणि माकृतत्वात् । पुंस्त्वं निर्देशः सांवत्सरिके पर्युषणापर्वचतुर्मासिकानि त्रीणि कार्तिकफाल्गुनापाढपूर्णिमादिनानि श्रुतोक्तनीत्या आचरणया तु तच्छुक्लचतुईशीदिनानि । उपलक्षणं चैतत्तेन चतुर्दश्यष्टम्यमावासीपूर्णिमाशाहिकाकल्याणिकदिनादीनि सुष्टु शोभनानि पर्वाणि तिथिविशेषाः । एषु हि भगवना सर्वादरेण व्रतनियमदर्शनप्रभावनादौ यत्न उपदिष्टः, तथाहि-" संवत्सरचाउमा. सिएसु अट्ठाहियासु य तिहीसु । सब्वायरेण लग्गइ जिणवरपूया तव गुणेसु ॥ ११७॥ ननु सुपर्वविधानादेव स जयतीत्युक्तं, तत्र को हेतुरित्यादि ।' निबंधसाणित्ति' निद्धंधसति' देशीपदं, येषां सुपर्वणां प्रभावान्निद्धंधसाना निर्दयानामपिरत्र गम्यते । तेनास्तां सदयानां जायते मादुर्भवति धर्मपतिईमबुद्धिः, ते हि परलोकनिरपेक्षा अपि पर्य
For Private and Personal Use Only