________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(रास्त्येव तत्कथमुच्यते तेऽजरामरत्वं प्राप्ता इतिचेत्, उच्यते- राज्यार्हकुमारस्य राजव्यपदेशवत् अजरामरत्वा ईस्याजरामरत्वं जनसम्पदार्थे च केऽपि प्राप्तोत्तरगुणास्तस्मिन्नेव भवे सियन्ति केsपि द्वितीयादिभषेषु सिद्धयन्ति, " अत्येगइया तेणेव भवग्गहणेणं सिज्यंति बुज्झति मुच्चति परिनिव्वायंती" त्यादिवचनप्रामाण्यात् यावद्दूरादपि प्राप्तोतरगुणा अपार्द्धपुद्गलपरावर्त्तते मुसिद्धयन्त्येव । तदुक्तं-" अंतोमुहुत्तमित्तं पि फासियं जेहि हुज्ज सम्म । तेसिं अगल परियहो चेव संसारो ॥ २१ ॥ तस्माज्जिनसम्यक्त्वादजरामरत्वं स्फुटमेव । शेषदेवसेवया तु सर्वदुःखमूल मिध्यात्वार्जनेनानन्तानि जन्मजरामरणदुःखान्यनन्तकालमनुभवन्तीत्यर्थः ॥ ४ ॥ ननु यदि सम्यक्त्वमेवं गुणकारणं मिथ्यात्वं वानर्थकारणं ? तत्किममी लोका मिध्यात्वं सेवन्ते न तद्दुःखहेतुत्वेन चेतयन्ते, इत्यतः सोपनयं दृष्टान्तमाह
मूलम-जह कुवि वेसारत्तो, मुसिज्जमाणो वि मन्नए हरिसं । तह मिच्छवेसमुसिया गयंपि न मुणति धम्मनिहिं ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या- यथेति दृष्टान्तोपन्यासे, कोऽपि कश्चित् वेश्यारक्तो वेश्या वारवधूस्तस्यां रक्तोऽनुरागवानास लिंगत इति यावत्, मुष्यमाणोऽपि धनापहारेण निःसारीक्रियमाणोऽपि मन्यते हर्षप्रमोदमिति । यतः - " गणयन्ति नापशब्द न वृतभङ्गं न चार्थपरिहाणिम् । रसिकत्वेनाकुलिता वेश्यापतयश्च कषयश्च ।। २२ ।। " तथेत्यौष
For Private and Personal Use Only