________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| निर्भीकः सुख तिष्ठसि भूतले ॥ ५९॥ तेनायाहि मया साई यथा तत्रैव तेऽभिधाम् । निष्कास्य चित्रगुप्तेना-पसारयामि पत्रतः ॥ ६०॥ श्रेष्ठी हृष्ठस्ततोऽध्यासी--दहो फलवती मम । यमस्य भक्तिः सञज्ञ यदेषोऽध्यक्षतां गतः॥ ॥ ६१ ॥ मदभीष्टं वरं चासा--वार्पयद्भक्तिरञ्जितः । दुःसाध्यमथवा भक्तेः किं जगत्यपि विद्यते ॥ ३२॥ अपसारयितुं चैव स्वपत्रान्नाम मामकम । मामाकारयते पीत- स्तद्गच्छाम्यमुना सह ॥ ६३॥ स्वसाक्षीकमहं नाम स्वकीयं यमप
त्रतः । माज्जयित्वा समायामि यथा मे न मृतिर्भवेत् ॥ ६४ ॥ इति ध्यात्वा ययौ सोऽपि यमेन सह तत्पुरम् । या2 वत्तन्मन्दिरद्वारं जग्मतुस्तावुभावपि ॥६५॥ यमस्तत्रैव तं मुक्त्वा स्वयं माविशदन्तरा । प्रतिपन्नविधानाय चित्रगुप्त
मजूहवत् । ६६ । उवाच चैनं भो चित्र ? गुप्तपत्राणि सत्वरम् । वाचयित्वा ततस्तेभ्यो नामैतस्यापसारय ।। ६७ ॥ प्रमाणमादेश इति भणित्वा सोऽथ लेखकः । पत्राणि वाचयामास तत्कालं शमनामतः ॥ ६८ ।। वाचितेष्वथ पत्रेषु प. मेकं विनिर्गतम् । श्रेष्ठिनस्तस्य जन्मादि समाचारनिवेदकम् ॥ ६९ ॥ चित्रगुप्तस्तदा प्राह सावधानो भव प्रभो ?। मृत्युहेतुं श्रेष्टिनोऽस्य समाकापसारय ॥ ७॥ वाचयेति यमेनोक्ते ततोऽवाचयदित्यसौ । यथाऽमुकपुरे श्रेष्ठी समृडी भविनाऽमुकः ॥ ७१ ॥ स चान्यदा मृत्युभीतो मृत्युमाराधयिष्यति । भक्तितुष्टो यमाश्चास्या-भीप्सितं प्रतिपत्स्यते ॥७२ नाम चास्य स्वपत्रेभ्योऽपाकर्तुं स्वात्मना सह । समानेष्यति तं च स्व-प्रतोल्यां स्थापयिष्यति ॥ ७३ ॥ समेष्यति स्वयं मध्ये प्रतोली तावदेव सा । पतिष्यति तयाक्रान्तः स पश्चत्वं च लप्स्यते ॥ ७४ ।। यमः मोवाच सन्मन्ये पराका स ममार किं । यावत्पश्यन्ति तं तत्र मृतं तकिकरादयः ॥ ७५ ॥ आराधितोऽपि न यम-नातवान् पणिज मृतेः।
For Private and Personal Use Only