________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
षष्ठिशतक
पकरणम् ॥
सटीकं०
DESC00AMISSION
केवलां भुवम् । अभ्यस्यन्तीव तत्पार्थात् सर्व सहगुणं खलु ॥ १२९ ॥ राज्ञा सपरिवारेण नागरैश्च सविस्मयैः । अनुयाता सुरस्त्रोत-स्विनीव धवलच्छदैः ॥ १३० ॥ सम्यक्त्व इव निःशङ्का स्वचरित्रे सुनिर्मले । कुपोपान्तं सपीयाय वैवये क्वाप्यबिभ्रती ॥ ११॥ पंचभिः कुलकम् ॥ मनोवाक्तनुभिः शुद्धं शीलं चेन्मम वर्तते । तदा निर्गच्छतादम्भथालिन्या, दाररोधभित ॥ १३२ ॥ इत्युक्त्वा चालिनी बध्वा केवलैरेव तन्तुभिः । आचकर्ष जलं कृपा-दन्तः प्रक्षिप्तया तया ॥ १३३ ।। सच्छिद्राया अपि यस्याः पूर्णाया अपि वारिणा। नागलद्विन्दुरेकोऽपि वारां वज्रघटादिव ॥ १३४ ॥ सन्तः सन्त्यपि छिद्राणि मुद्रितानीष कुर्वते । परेषामिति सा चक्रे निश्छिद्रामिव चालिनीम् ॥ १३५ ॥ यच्छिद्रशतयुक्तायां चालिन्यां निश्चल जलम् । शीललीलायितं तन कस्य कौतुकहेतवे ॥१३६ ॥ या न रक्षति सारं सा चालिन्यवगुणाश्रया । यया चक्रे रसाधारा अहो ! उत्तम चेष्टितम् ॥१३७॥ चालिन्या दधती शुद्ध, नीरं नीरन्ध्रयेव सा । स्वशीलमिव मूर्त प्रारु प्रतोली समुपस्थिता ॥ १३८ ॥ तां त्रिराछोटयामास चालिनीस्थितवारिणा । सोद्घाराजनि तत्काल-माइतेव घनर्धनैः॥ १३९ ॥ अहो सत्त्वमहोसत्व-महोशीलमनिन्दितम् । अहो धर्मकतानत्व-महो चरित मुज्ज्वलम् ॥ १४० ॥ अमुष्याः श्रीसुभद्रायाः यत्पानीयमहारतः । उजघटे कपाट द्राक, दुरुद्घाट परस्वधैः ॥१४१ ॥ इति स्तुवन्तः सर्वेऽपि, नागरा भूभुजा सह । विस्मयं दधिरे चित्ते पुरोद्घाटेन दर्शनात् ॥१४२॥ प्रतोलीद्वितयं भूय--स्ततोऽन्यदुद्घाटयन् । सा तहदेव चक्षुश्च कुटुम्बस्यान्तरं सती ॥१४३ ॥ मत्तुल्यान्यपि या काचित् शीलेन चरितेन वा । वर्तते भाविनी वाऽथ सैनामुद्घाटयेत्सती ॥ १४४ ॥ इत्युदित्वा
॥७
॥
For Private and Personal Use Only