________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ श्रीसर्वज्ञाय नमः ॥
॥ किञ्चित्प्रस्तावना ॥
विद्वज्जनतमत्कारि विधिमार्गप्रतिपादनपरं सद्देवगुरुधर्मविषयप्रतिबद्धं षष्ठ्यधिकगाथाशतमानं प्रकरणमिदं निस्तन्द्रया धिया भाण्डागारिकनेमिचन्द्रेण विरचितमस्ति । यतः - "एवं भंडारि अनेमिचंदर आओ कह बिगाहाओ। विहिमग्गरया भवा परंतु जाणंतु जंतु सिवं ॥ १ ॥ " यद्यपि ग्रन्थकारेण स्वसत्तासमयो न प्रकटीकृतः तथापि जिनदत्तसूरिचरितानुसारेण विक्रमीयत्रयोदशशताब्त्रां समभूत् इत्यनुमीयते । असौ नेमिचन्द्रः अणहिलपुरपतन निवासिसज्जनभाण्डागारिकततया श्रीजिनेश्वरसूरिजनकतया प्रसिद्धोऽस्ति । अयं सदेवगुरुधर्मतच जिज्ञासायै नगरग्रामाकरपतनस्थित नानागच्छातुच्छश्रमणानीक्षमाणः तत्कालोचित क्रियाकलाप निष्णात जिनपत्तिसूरिवर्यस्य पार्श्वे सम्यक्त्वपूर्वक देश विरतिं जग्राह अस्योपरि महोपाध्यायश्रीगुणरत्नगणिना " परोपकाराय सतां विभूतयः " एतद्वाक्यानुसारेण १५०१ वर्षे वृत्तिर्विहिता, यदुक्तं प्रशस्त्याम्-
शशिगगन बाणभूमिप्रमिते वर्षे कृता विवृत्तिरिह । आचन्द्रार्क नन्दतु विषुधवरैर्वाच्यमानेयम् ॥ १ ॥
अयं गुणरत्नगणिः कस्मिन् देशे कतमं भूमण्डलं मण्डयामास के के ग्रन्था विनिर्मिताः तदस्माभिर्न निर्णीयते, क्वापि तत्सम्बन्धिलेखादर्शनात् । अस्मिन् प्रकरणे कुदेव- कुगुरु-कुधर्मसेवनया जीवा अनन्तशो भवभ्रमणं कुर्वन्ति । सुदेव-गुरुसुधर्माराधनेन बहवः प्राणिनोऽजरामरपदं प्राप्नुवन्ति इत्यादि युक्त्या सुप्रतिपाथ सद्देव-गुरु- धर्ममेव तत्वमिति निरूपि
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir