________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CHUS
5555
मूलम्-दूसमदंडे लोए सुदुक्खसिद्धमि दुक्खउदयम्मि ।
धन्नाण जाण न चलइ सम्मत्तं ताण पणमामि ।। १३३॥ व्याख्या-दुष्षमैव पश्चमारक एव दण्डयति असारी करोति बलमेधासुखसम्पत्तिविद्यायुरारोग्यसौस्थ्याचपहारेण लोकमिति । दुष्षमा दण्डस्तस्मिल्लोके साम्पतकालभाविनि जने अत एव मुदुःखसिद्धे तीक्ष्णकच्छूनिष्पन्ने । पुनः किंविशिष्टे लोके दोषे दुःखोदये दुःखानां परापरकष्टानां मानसिकवाचिफकायिकानामुदयो यत्र सस्मिन् , एवं विधेऽपि । लोके धन्यानां पुण्यवतां येषां जिनवचनभावितमतीनां सम्यक्त्वं तत्वश्रद्धानलक्षणं न पळति न क्षुभ्यति । अस्मिन् | काले हि तत्वश्रद्धानस्य दुर्लभत्वात्, यदुक्तं संघपके काव्य ३०-" सैषा हुण्डावसर्पिण्यनुसमयहसद्भव्यभावानुभाषा, शिश्चोग्रग्रहोऽयं खखनखमितिवर्षस्थितिभस्मराशिः । अत्यं चाचर्यमेतजिनमहत्तये तत्समा दुःषमा चेत्येवं पुष्टेषु दृष्टेष्वनुकूलमधुना दुर्लभो जैनमार्गः ॥३४५॥ ततस्तानचलितसम्यत्तवान् प्रणमामि नमस्करोमीति गाथार्थः ।। १३३ ॥ ननु पार 'दिट्ठा वि केवि गुरुणो' इत्यादिगाथयेवमभ्यधायि त्वया केऽपि गुरवो | दृष्टा अपि विकिनां हृदि न रमन्तेऽन्ये पुनररष्टा अपि रमन्ते । तत्सत्यं परं भवन्तं पृच्छामो भवता गुरु दृष्टो वा नेति प्रश्ने सति गाथात्रयमाह--
12
For Private and Personal Use Only