________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
www.kobatirth.org
प्रथममेदलक्षणस्य च शब्दोऽनुक्तसमुच्चये स च गायान्ते योक्ष्यते । उदये विपाके तथैव वादलाच्छादितसूर्यविम्वन्यायेन | न 'नियंतित्ति' न पश्यन्ति न विलोकयन्ति भावशा जिनदेवं वीतरागं चकारादागमविधिप्रसाधकं गुरुं च ।
मिथ्यास्वपटळलुप्तदृष्टयो हि सुदेवमुगुरून् जगत्मसिहानपि न पश्यन्तीति गायाः ॥ ८० ॥ जिनदेवं वा पश्यन्तोऽपि II मिथ्यात्वरता गुणिमत्सरिणश्च भवन्ति । तादृशानां वाऽभाव एव वरमित्याह
मूलम्- किं सो वि जणणिजाओ जाओ जणणीइ किं गओ विद्धिं ।
जइ मिच्दरओ जायो गुणेसु तह मच्छरं वहइ ॥ ८१॥ व्याख्या- 'किं सोव जिणेति' किमिति क्षेपे सोऽपि मानवो निर्देक्ष्यमाणदूषणोऽपि शब्द एव शब्दार्थः स चाग्रेतनेन जातशब्देन सम्बध्यते जनन्या मात्रा लुप्तविभक्तिकपदं जात एवं अन्तर्भूतकारितार्थत्वात् प्रसूत एव स जनन्या जात एव किमर्थमित्यर्थः । ताशजनने हि जनन्यास्तस्कृतापराधपदता भवति । यतो लोकः पुत्रस्य दुश्चरितं दृष्ट्वा- जननी यानि चिन्हानि,करोति मदविह्वला । प्रकटानि तु जायन्ते,तानि चिन्हानि जातक॥२५॥ इत्यादि कथनपुरस्सरं जनन्या एवायं दोषः यदयमीदृश इत्यादि तन्मातरमेव दूषयति तस्मादजात एव वरपिति भावः। अथ च जातो जनन्या तथापि किं गतो वृद्धि किमर्थ प्राप्त उपचयं जातमात्र एवं किं न विलीन इत्यर्थः । तादृशो हि द्धिप्राप्तो दुश्चरितमाचरबत्यानपि तत्र प्रवर्तयति । ततश्च स्वपरयोर्दुर्गतिहेतुत्वेनानकारी स्यादिति वृद्धिमप्राप्त एव
का
For Private and Personal Use Only