SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रागवन्तः प्रीतिपरा इत्यर्थः । शुद्ध जिनवरमते शुद्धमविधिमलकलङ्कापगमा ज्जिनवरमतं सर्वज्ञशासनं जिनधर्म इति यावत् तस्मिन् सिद्धिसुखतौ इति पूर्वा अन्तरे विशेषे विवेक्यविवेकिनोः सत्यपीति गम्यते पश्यत विलोकयत कौतुकमिति शेषः । श्रोतृनुद्दिश्य भणति मूढा मूर्खा न्यायं निश्चित आयः परिच्छेदः सर्वे गत्यर्था ज्ञानार्था इति वचनात् न्यायः प रिच्छेuनिश्चयस्तं न जानन्तीति न बुध्यन्ते । अयं भावः ये कुलक्रमे रक्तास्तेषां धर्माभावो युक्त्या लौकिकानामपि सिद्धिरेवान्यथा तेऽपि स्वकुळक्रमासक्तान् म्लेच्छान् निर्द्धर्मान् वक्तुं न शक्नुयुः । वदन्ति च म्लेच्छादीन् धर्मरहितान् तथा ये च जनमते रक्तास्तेषां धर्मसिद्धिस्वकृत्यस्याङ्गीकरणाल्लौ कि कैरप्यङ्गीकृतैव । यदाहुस्ते-" पञ्चतानि पवित्राणि सर्वेषां धर्मचारिणाम् | अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥ २४५ ॥ " अतः प्रकटमेवान्तरं कुछक्रमरक्तानां शुद्ध जिनमतरक्तानां च सत्यपि चास्मिन् मूढा न्यायं परिच्छेद्य निश्वयं यत्कुलक्रमस्य भवहेतुत्वं जिनम तस्य च मोक्षहेतुत्वं, तस्मात् कुळक्रमाभिमानं विहाय जिनधर्म एव कर्तुमुचित इति न जानन्ति नावगच्छन्तीति पश्यत भी श्रोतार इति गाथार्थः ॥ ७४ ॥ न्यायमजानानाथ मूढा यादृशाः स्युस्तदाह मूलम-- संगो वि जाण अहिओ तेसिं धम्माई जे पकुव्वंति । मुत्तण चोरसंग करंति ते चोरियं पावा ॥ ७५ ॥ व्याख्या--' संगोवित्यादि ' सङ्गः संसर्गमात्रमास्तां सेवनकथितकारित्वादिरित्यपि शब्दार्थः । येषां इति मि For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy