SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विरहेणोचैः, श्रेयो विघ्नप्रशान्तये ॥ १७९ ॥ साधवो विशुद्धत्वात् शुद्धमेव विधिधर्म्मविषयं प्रयुञ्जते । अततत्सङ्गमात्तत्रैव रागो भवति सोऽपि च अपिशब्द एव शब्दार्थस्ततश्च स एव शुद्धविधिधर्मरागोऽशुद्धानामुत्सूत्रभापार्श्वस्थादीनां सङ्गे निपुणानामपि विधिविदुराणामपि किं पुनरनिपुणानां नश्यति गलति अनुदिनं अनुदिवसं प्रतिदिनं । यतः, उपदेशमालायां- आलावो संवासो वीसंभो संथवोपसंगो य । हीणायारेहिं समंसव्वजिणिदेहिं पडिकुट्ठो ॥ १८० ॥ अन्नुन्न जंपिएहिं हसिउद्धसिएहिं विप्पमाणो य । पासत्थ म झारे बला जई वाउली होइ || १८१ ॥ [ व्याख्या--'आलावो' इति, आलापः पार्श्वस्थेन साई जल्पनं, संवासः तेन सार्द्धमेकत्र वासः, विस्रम्भो विश्वासः, संस्तवः परिचयः, प्रसङ्गो वस्त्रादिग्रहणार्पणादिव्यवहारो हीनाचारैः पार्श्वस्थादिभिः समं सार्द्धं एते पदार्थाः सर्व जिनेन्द्रैः सर्वतीर्थङ्करैः ऋषभादिभिः 'पडिकुट्टो' इति निषिद्धाः एकैकापेक्षया एकवचनं ॥ ' अन्नुन्नइति अन्योन्यं परस्परं जल्पितैर्भाषितैः विकयादिकथनैरित्यर्थः, हसितैहास्यै उसि रोमोद्गमैः कृत्वा 'खिष्पमाणो अ' इति पार्श्वस्थादिभिः प्रेर्यमाणः पार्श्वस्थानां मध्ये बलादपि हठादपि यतिर्व्याकुलो भवति स्वधर्माद् भ्रष्टो भवतीत्यर्थः, अतस्तत्सङ्गमस्त्याज्य एवेत्यर्थः ॥ ] इदमुक्तं भवति साधून् विधौ प्रवर्त्तमानान् दृष्ट्वा तत्सङ्गाद्विधिसेवायामनुरागो जायतेऽसाधूवोच्छुङ्खलत्वेन प्रवर्त्तमानान् दृष्ट्वा विधिरागो गति तद्दाक्षिण्यादिना तस्मादुत्सूत्रभापकाशुद्धसङ्गतिस्त्याज्या । यतः - " यदि त्वं सत्सङ्गरतो भविष्यसि भविष्यसि । उतासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि || १८२ ॥ इत्यर्थः । प्राक् शुद्धाशुद्धयोः सङ्गस्येष्टानिष्टफलत्वाख्यानेना For Private and Personal Use Only
SR No.020698
Book TitleShashti Shatak Prakaranam
Original Sutra AuthorN/A
AuthorManvijay
PublisherSatyavijay Jain Granthmala
Publication Year1924
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy