________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शश्वोग्रग्रहोऽयं खखनख मित वर्षस्थितिर्भस्मराशिः । अन्त्यं चाश्चर्यमेतजिनमतहतये तत्समा दुःषमाले --त्येवं दुष्टेषु पुष्टेष्वनुकलमधुना दुर्लभो जैनमार्गः ॥ १६१ ।। [ व्याख्या-या आगमग्रन्थेष्वागामितयालिखिताकते सा एषा सम्मति प्रत्यक्षकाळस्याप्रत्यक्ष्यत्वेऽपि तदुद्भवकार्याणां प्रत्यक्षोपलम्भेनोपचारादेपेत्युक्तं अवसर्पन्ति प्रतिक्षणमायुः शरीरममाणादयो भावा हानिं गच्छन्ति प्राणिनामस्यामित्यवसर्पि
णी सिद्धान्तप्रसिद्धः काळविशेषः । हुण्डं सकलाङ्गोपाङ्गानां यथोक्तमानवैकल्यहेतुः षष्ठं संस्थानं तेनोपलक्षिता अवसर्पिणी हुण्डावसर्पिणी व्युत्पत्तिमात्रं वेदं तत्वतस्त्वनन्त तमकालभाव्य संयत पूजा निबन्धनं चैत्यवास्युत्पादहेतुः, शुभभावहानिकारणं कालभेदो हुण्डावसर्पिणी सा च भगवति मोक्षं गते जातेति, समयः परमसूक्ष्मः कालस्ततश्चानु समयं प्रति भव्यानां मुक्तिगामिनां अथवा भव्याः शुभा भावा: परिणामा अनुभावाश्च प्रभावा मतिनिश्चया वा ततश्च हसन्तो हीयमाना भव्यभावानुभावा यस्यां सा तथा । हुण्डावसर्पिण्यां हि काळस्वाभाव्याद् धर्मार्थिनामपि प्रायेण भावा यादृशा वर्त्तमानक्षणे, न तादृशा क्षणान्तर इत्यादि क्रमेण प्रति क्षणं सबलेशतारतम्याघ्राततयोपजायमाना उपलभ्यन्ते । तथा च प्रकरणकारेणैव प्रकरणान्तरे प्रदर्शितं, “ कालस्स अइकिलिट्ठत्तणेण अइसेसिपुरिसविरहेण । पायमजुगसेण व गुरुकम्मत्तेण च जियाण ।। १६२ ।। किर मुणिय जिणमा वि हु अंगीकय सरिसधम्ममन्गा वि । पापमइसकिलिट्ठा धम्मत्थी वित्थ दीसति ॥ १६३ ॥ अत्र च सदित्यनेन संयोगपरत्वेऽपि पूर्ववर्णस्य न गुरूत्वं च्छंदः शास्त्रे व्यवस्थितयानुदृश्या क्वचित्तन्निषेधात् । तथा
For Private and Personal Use Only