________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.३.]
मानन्दाधिकरणम् ब्रह्मध्यानार्यकर्मातिशयजननतः प्रस्तुतापेक्षितं सत् ॥ १२
- (अथ सर्वाभेदाधिकरणम् ॥ ३ ॥rrrज्यैष्ठयश्रेष्ठयादिसाम्ये कचन समधिकं भाति वासिष्ठयपूर्व तेनेत्यं रूपभेदाबहुनिगमगता भिद्यतां प्राणविद्या । मैवं वागादितत्तद्गुणपरवशतावर्णनस्याविशेषाद्वागायैस्खखधर्मोपचरणमकृतं तावता स्यान भेदः॥ १३
-- (अथानन्दाद्यधिकरणम् ॥ ४ ॥)-.. नानाशब्दादिभेदादिति खलु भिदुरां वक्ष्यति ब्रह्मविद्या रूपं विद्यान्तरस्य प्रकरणपठितान्नान्यदन्यत्र योज्यम् । तस्मात् सत्यत्वपूर्वास्तदितरगुणवत् स्युर्व्यवस्थापनीया मैवं ब्रह्मवरूपावगतिरिह यतस्तद्धि सर्वाखपेक्ष्यम् ॥ सत्यत्वं विश्वहेतो बहुविधचिदचिद्विक्रियाजालहाने ज्ञानत्वं ज्ञातभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च । त्रिद्वयकाभिस्तु सर्व प्रमितमिह परिच्छित्तिभिर्ब्रह्मणोऽन्यत्तस्यानन्त्यं वियोगात्तिमृभिरपि सदा निर्मलानन्दधाम्नः ॥१५ उक्तं जन्मादिसूत्रे ननु निखिलजगद्धेतुता ब्रह्मलक्ष्म स्यात्तेनैव स्वरूपावगतिरिह मुधा सत्यतादीति चेन्न । हेतोरीशस्य हेत्वन्तरगतविविधावद्यवर्गप्रसङ्गे शारूढे क्रमेणेतरविभजनतस्तस्य साफल्यसिद्धेः॥ १६ नन्वाख्यानं प्रियायैरपि भवति शिरःपक्षपुच्छादिरूपैर्बादं तत्र प्रियायैस्तदवगतिरतस्ते तु सर्वानुवृत्ताः। पुच्छाद्यशो निरंशे न भवति न च तदृष्टिरुत्कृष्टतत्त्वे तस्माञ्चित्याग्निरूपक्रमवदिह कृतं रूपणं ब्रह्मणि स्यात् ॥ १७ आनन्दत्वप्रधानं कतिचिदिह विदुस्सौत्रमानन्दशन्दं
For Private And Personal Use Only