SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा...] उभयलिशाधिकरणम् पक्षेपक्षे विकल्प क्रमघटितचतुर्दोषयुक्तो न युक्तः॥ ११ ---(अय कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥ ३ ॥).-.-. मुक्तिब्रह्मण्यपीति हदसुखगणा तादृशीयं सुषुप्तिश्श्रुत्यैव ख्याप्यतेऽतस्तदनु तनुभृदुदद्धयमानस्ततोऽन्यः । मैवं कर्मानुवृत्तेस्स्मरणनियमतः पूर्व एवेति शब्दान्मोक्षोपायादिशिष्टेस्वपदनुवदनात् प्राच्य एव प्रबुद्धः॥ १२ जीवानादित्वमूचे दृषदनुकरणं क्षेप्स्यते चापवर्गे स्वर्गाद्यर्थप्रवृत्तिः श्रुतिनयविदिता सौगताद्याश्च भग्नाः। कल्पान्तेऽप्येकतोक्तिनियमितविषया नामरूपप्रहाणात् भूयश्चिन्ता सुषुप्ते प्रलयसमदशासंजिहासादिसिद्ध्यै ।। -- (अथ मुग्धाधिकरणम् ॥ ४ ॥).-..जाग्रत्स्वप्नौ न बाह्यावगमविरहितौ श्वासपूर्णासुषुप्तिस्तस्मान्मुग्धिर्मृतिस्स्यात् प्रशमितकरणप्राणवर्गेति चेन्न । मृत्यादेर्हेतुभेदात् स्थितिमृतिविशयादुत्थितेश्चानियत्या मर्तु प्रक्रम्य मध्ये विरमति विधिनेत्यत्र तुर्यार्द्धभावः ॥ १४ पेटिकोपोडातः॥ जन्तूनां जागरादिस्थितिषु भवति यदेशसं दर्शितं तत् तत्तत्स्थानादियोगेऽप्यनघशुभगुणं ब्रह्म संशोद्ध्यतेऽद्य । संसगैक्यादिमूलान् परिहरति ततो दोषवर्गानुभाभ्यां हीनत्वौदार्यहानी परमपनयते नीतियुग्मेन नेतुः॥ १५ नैर्गुण्यं निर्गुणोक्तेर्गुणवचनमिहाऽऽविद्यधर्मार्थवादो। नैर्दोष्यं वस्तुवृत्या तदितरदखिलं स्वामभोगादितुल्यम् । इत्थं जीवेशभूमापहरणकुहनावादमोमुह्यमानान् क्षेप्तुं न स्थानतोऽपीत्यधिकरणमथारभ्यतेऽनेकशृङ्गम् ॥ १६ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy