________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अधिकरणसारावल्याम्
[अ. २. ---(अथ समुदायाधिकरणम् ॥ ३ ॥)... बायोक्ताचारभागश्श्रुतिविहतिवशाजैमिनीये निरस्तस्तत्त्वांशन्तर्कितन्तैः प्रतिवदति गुरुजैमिनेरत्र पादे । निर्धते तत्र पूर्व निरुपधिकनयैरर्धवैनाशिकोक्ते पक्षान्वैनाशिकानां जिनगिरिशमतक्षेपतः प्राक् क्षिणोति ॥ १५ बुद्धोऽसौ स्वावतारैस्सह परिगणितः श्रीधरेण स्वशास्त्रे सर्वज्ञो नैव मुह्येन च निखिलसुहृद्विप्रलिप्सेत कश्चित् । तस्मात् बुद्धोक्तभङ्गे भजति भिदुरा सात्त्वतादीति चेन्न खाभीष्टप्रत्यनीकप्रमथनमनसा मोहनादिप्रवृत्तेः॥ १६ दुर्वारा मोहनेच्छा निखिलजनयितुः केन मोहोऽन्यथा नस्तस्मात्कर्मानुरूपन्दिशति फलमसौ तत्वबोधं भ्रमं वा । खोक्त्यादेस्सिद्धमेतन्निरुपधि विषमो नैव तस्मात् समोक्तिः कारुण्याद्विप्रलिप्सा न यदि वृजिन नेशनिघ्नं फलं स्यात् ॥ कल्प्यो बोद्धेति सर्वे सुगतमतविदो बोध्यमध्यक्षमेके बुध्याकारानुमेयं कतिचन कतिचित् बोध्यमिथ्यात्वमाहुः। तत्तुल्यन्यायतोऽन्ये धियमपि जगदुः संवृतेरेव सिद्धांतान्सर्वीस्तर्कमानधति दितिजगुरूनद्य वैभाषिकादीन् ॥ १८ एकद्वयादिस्वभावैर्यदणुभिरथवा तत्तदेकस्वभावैः क्षोणीदेहादिपुञ्जप्रसूतिरिति समाभाषि वैभाषिकेण। ज्ञानादानादि तत्र क्षणभिदुरतया बोध्यबुद्ध्योने सिद्धयेनिर्बाधा प्रत्यभिज्ञाप्यनुमितिमथनी शेषमन्यत्र सूक्तम् ॥ १९ बोधेष्वाकारभेदं निजमुपरितनेष्वर्पयन् प्राक्तनोऽर्थस्तद्वैचित्रयानुमेयः कचिदपि न तदाध्यक्षतेति प्रजल्पन् । प्राक् पश्चाच प्रवृत्तैर्विहतिबहुलतां गौरवश्च ब्रुवाणैः शिक्षादक्षैस्सयूथ्यैर्दमित उपशमं यातु सौत्रान्तिकाख्यः॥ २०
For Private And Personal Use Only