________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.]
अभावाधिकरणम् -
૪૮૨
निस्सम्बोधत्वमुक्त्वा तस्मिन्नेव वाक्ये मुक्तमधिकृत्य १" स वा एष दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके" इति सर्वज्ञत्वमुच्यते । तथा २" सर्वे ह पश्यः पश्यति सर्वमाप्रोति सर्वशः " इति च स्पष्टमेव सर्वज्ञत्वमुच्यते । तथा मरणे च निस्सम्बोधत्वम् ३ एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानु विनश्यति" इत्युक्तम् । विनश्यति - ausearcयर्थः । अतः ४ " प्राज्ञेनात्मना " इति वचनं स्वाप्ययसम्पन्योरन्यतरापेक्षम् ।। १६ ।
इति श्री शारीरकमीमांसाभाष्ये अभावाधिकरणम् ॥ १० ॥
वेदान्तसारे - अभावं बादरिराह ह्येवम् ॥ तस्य देहेन्द्रियाद्युपकरणाभावं बादरिर्मेने ५' 'नह वै सशरीरस्य" इत्यादिर्हि तदभावमाह ॥ १० ॥ भावं जैमिनिर्विकल्पामननात् ॥ २'' एकधा भवति" इत्यादिना देहेन्द्रियादिभिर्विविधताश्रुतेः देहाद्युपकरणसद्भावं जैमिनिमैने ॥ ११ ॥
द्वादशाहवदुभयविधं बादरायणोऽतः । उभयश्रुतेस्सशरीरत्वमशरीरत्वश्चेच्छातः यथा द्वादशाहे उभयश्रुते सत्र महीनञ्च भवति ॥ १२ ॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥ स्वेनैव सृष्टतन्वाद्यभावे स्वप्ने ६" अथ रथान् रथयोगान् पथस्सृजते " इति परमपुरुषसृष्टभागवत् मुक्तोऽपि परमपुरुसृष्टैरेव लीलारसं भुङ्क्ते ॥ १३ ॥
भावे जाग्रद्वत् || स्वनैव सृष्टोपकरणभावे जाग्रत्पुरुषवत् भुङ्क्ते ॥ १४ ॥ प्रदीपवदावेशस्तथाहि दर्शयति ॥ एकदेशस्थितस्यापि स्वप्रभारूपज्ञानव्याप्त्या सर्वानुभवस्सिद्ध्यति । ७'' वालाग्रशतभागस्य" इत्यारभ्य ७" स "चानन्त्याय कल्पते" इति हि दर्शयति ॥ १५ ॥
स्वाप्ययसम्परयोरन्यतरापेक्षमाविष्कृतं हि ।। ४' प्राशेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्" इति वेदनाभाववचनं सुषुप्तिमरणयोरन्यतरापेक्षमित्युक्तम् । ८" ना ह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहम
१. छा. ८-१२-५॥ - २. छा. ७-२६-२ ॥ - ३. बृ. ४-४-१२ ॥ - ४. बृ. ६-३-२१ ॥ - ५. छा. ८-१२, १ ॥ ६. बृ. ६-३-१० – ७. वे. ५-अ ९ ॥ — ८. छा. ८-११-२ ॥
For Private And Personal Use Only