________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८२ श्रीशारीरकमीमांसाभाष्ये
[अ.४. प्रदीपवदावेशस्तथाहि दर्शयति । ४।४।१५॥
यथा प्रदीपस्यैकस्यैकस्मिन्देशे वर्तमानस्य स्वप्रभया देशान्तरावेशः; तथाऽऽत्मनोऽप्येकदेहस्थितस्यैव स्वप्रभारूपेण चैतन्येन सर्वशरीरावेशो नानुपपन्नः यथा चैकस्मिन्नपि देहे हृदयाघेकप्रदेशवर्तिनोऽपि चैतन्यव्याप्त्या सर्वस्मिन् देह आत्माभिमानः, तद्वत् । इयान्विशेषः-अमुक्तस्य कर्मणा सङ्कुचितज्ञानस्य देहान्तरेषु आत्माभिनानुगुणा व्याप्तिर्न सम्भवति मुक्तस्य त्वसङ्कुचितज्ञानस्य यथासङ्कल्पमात्माभिमानानुगुणा व्याप्तिः 'इदम्' इति ग्रहणानुगुणा च नानुपपन्ना । तथाहि दर्शयति १“वालाग्रशत भागस्य शतधा कल्पितस्य च। भागो जीवस्स विज्ञेयस्स चानन्याय कल्पते" इति । अमुक्तस्य कर्म नियामकम् : मुक्तस्य तु स्वेच्छेति विशेषः॥
ननु परं ब्रह्म प्राप्तस्यान्तरबाह्यज्ञानलोपं दर्शयति श्रुतिः २"प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किंचन वेद नान्तरम्" इति; तत्कथं मुक्तस्य सार्वज्ञयमुच्यते? तत्रोत्तरंस्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं
हि।४।४।१६॥ नेदं वचनं मुक्तविषयम् अपितु स्वाप्ययसम्पत्त्योरन्यतरापेक्षम्।स्वाप्ययः-सुषुप्तिः सम्पत्तिश्च-मरणम्, ३ "वाड्मनसि सम्पद्यते"इत्यारभ्य ३ "तेजः परस्यां देवतायाम्" इति वचनात् । तयोश्वावस्थयोः प्राज्ञप्राप्तिर्निस्सम्बोधत्वं च विद्यते । अतस्तयोरन्यतरापेक्षमिदं वचनम् । सुषुप्तिमरणयोनिस्सम्बोधत्वं, मुक्तस्य च सर्वज्ञत्वमाविष्कृतं हि श्रुत्या ४" नाह खल्वयमेवं सम्पत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि वि. नाशमेवापीतो.भवति नाहमत्र भोग्यं पश्यामि." इति सुषुप्तिवेलायां
१. श्वे. ५-अ, ९ ॥--२. बृ. ६-३.२१॥-३. छा. ६-८.६॥-४. छा. ८.११.२॥
For Private And Personal Use Only