________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--(श्रीशारीरकमीमांसाभाष्ये अभावाधिकरणम् ॥ ५॥).....
अभावं बादरिराह ह्येवम् । ४।४।१०॥ ___किं मुक्तस्य देहेन्द्रियाणि न सन्ति, उत सन्ति, अथवा यथासकल्पं सन्ति न सन्तिचेति विशये-शरीरेन्द्रियाणामभावं बादरिराचार्यो मन्यतेः कुतः ? आह ह्येवं-१" नह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा व सस्तं न प्रियाप्रिये स्पृशतः" इति शरीरसम्बन्धे दुःखस्यावर्जनीयत्वमभिधाय १" अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते " इति मुक्तस्याशरीरत्वं ह्याह श्रुतिः ॥१०॥ भावं जैमिनिर्विकल्पामननात् । ४।४।११॥ __मुक्तस्य शरीरेन्द्रियभावं जैमिनिराचार्यों मन्यते, कुतः? विकल्पामननात्-विविधः कल्पो विकल्पः, वैविध्यमित्यर्थः, २" स एकधा भवति विधा भवति, पञ्चधा सप्तधा" इत्यादिश्रुतेः। आत्मन एकस्यानेकधाभावासम्भवात् त्रिधाभावादयः शरीरनिबन्धना इत्यवगम्यते । अशरीरत्ववचनं तु कर्मनिमित्तशरीराभावपरम् । तदेव हि शरीरं प्रियाप्रियहेतुः ॥ ११ ॥
__ भगवांस्तु बादरायणः स्वमतेन सिद्धान्तमाहद्वादशाहवदुभयविधं बादरायणोऽतः।४।४।१२॥
'सङ्कल्पादेव' इत्येतदतश्शब्देन परामृश्यते; अत एव सङ्कल्पात् , उभयविधं सशरीरमशरीरं च मुक्तं भगवान् बादरायणो मन्यते; एवश्ो
१. छा. ८-१२-१,२॥-२. छा. ७.२६-२ ॥
For Private And Personal Use Only