________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४.]
सङ्कल्पाधिकरणम् ·
वेदान्तसारे - सङ्कल्पादेव तच्छ्रुतेः ॥ १" स यदि पितृलोककामः” इत्यादिनाऽवगताः पित्रादयः १ " सङ्कल्पादेवास्य” इति श्रुतेः सङ्कल्पादेव भवन्ति । यथा परमपुरुषस्य लीलाप्रवृत्तस्य दशरथवसुदेवादयस्सङ्कल्पादेव भवन्तिः एवमेव परमपुरुषलीलान्तर्गतस्य मुक्तस्यापि तदुपकरणभूताः पित्रादयसङ्कल्पादेव भवन्तीत्यर्थः ॥ ८ ॥
;
Acharya Shri Kailassagarsuri Gyanmandir
अत एव चानन्याधिपतिः। अत एव २ " अपहतपाप्मा... सत्यसङ्कल्पः" इत्यादिश्रुतेः न कदाचिदपि कर्माधीनोऽयम् ॥ ९ ॥
इति वेदान्तसारे सङ्कल्पाधिकरणम् ॥ ४ ॥
४-४-१२ ॥
वेदान्तदीपे - सङ्कल्पादेव तच्छ्रुतेः ॥ ३" परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षत्क्रीडन्त्रममाणस्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा" इत्यादिराम्नायते । किमेते शात्यादयो मुक्तस्य सङ्कल्पादेव भवन्ति, उत प्रयत्नान्तरसव्यपेक्षात्सङ्कल्पादिति संशयः । लोके राजादीनां सत्यसङ्कल्पत्वेन व्यवह्रियमाणानामपि कार्ये प्रयत्नान्तरसापेक्षत्वदर्शनान्मुक्तस्यापि तथैव सापेक्षादिति पूर्वः पक्षः "सङ्कल्पादेव " इत्यवधारणं ४ 'विज्ञानघन एव" इतिवद्भविष्यति । राद्धान्तस्तु २ " सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति " इत्यवधारणान्नान्यापेक्षत्वम् । नचेह सत्यकामत्वाद्युपन्यासवत् मुक्तस्यान्यापेक्षत्वे प्रमाणमस्ति । लोके सत्यसङ्कल्पत्वाभावादेव प्रयत्नान्तरापेक्षत्वम् ; नहि परमपुरुषव्यतिरिक्तः कश्चित्सत्यसङ्कल्पोऽस्ति | मुक्तश्च तत्प्रसादात्तत्साम्यमुपगतस्तथैव । सूत्रमपि व्याख्यातम् ॥ ८ ॥
""
अत एव चानन्याधिपतिः । अतः श्रुतेरेव मुक्तोऽनन्याधिपतिश्च । अन्याधिपतित्वं- कर्माधीनत्वम् । "" २ अपहतपाप्मा सत्यसङ्कल्पः " इति श्रूयते ; अतोऽनन्याधिपतिः ॥ ९ ॥
इति वेदान्तदीपे सङ्कल्पाधिकरणम् ॥ ४ ॥
१. का. ८-२-१ ॥ - छा, ८-७-१ ॥ ----३. छा. ८-१२-२,३ ॥
४७९
For Private And Personal Use Only
– ४. बृ.