________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
आमृत्युपक्रमाधिकरणम् •
४२९
णस्तेजसि " इति किं तेजोमात्रे प्राणस्संयुज्यते, उत भूतान्तरसंसृष्ट इति संशयः । १" तेजसि " इति वचनात्तेजोमात्र इति पूर्वः पक्षः । २" पृथिवीमयः " इत्यादिना सञ्चरतो जीवस्य सर्वभूतमयत्वश्रुतेः, त्रिवृत्करणश्रुतिस्मृतिभ्याञ्च तेजस एकस्य कार्यक्षमत्वाद्भूतान्तरसंसृष्ट इति राद्धान्तः । सूत्रद्वयं व्या
ख्यातम् ॥ ५ ॥ ६॥
इति वेदान्तदीपे भूताधिकरणम् ॥ ४ ॥
.. ( श्रीशारीरकमीमांसाभाष्ये आमृत्युपक्रमाधिकरणम् ।। )...
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य|४|२|७॥
इयमुत्क्रान्तिः किं विद्वदविदुषोस्समाना, उताविदुष एवेति चिन्तायाम्, अविदुष एवेति प्राप्तम् । कुतः : विदुषोऽत्रैवामृतत्ववचनादुत्कान्त्यभावात् । विदुषो ह्यत्रैवामृतत्वं श्राव्यते - ३ “यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते " इति ॥
-- ( सिद्धान्तः ) -
૪:
एवं प्राप्तेऽभिधीयते - समानाचाऽमृत्युपक्रमात् - इति । विदुषोऽप्यामृत्युपक्रमादुत्क्रान्तिस्समाना । आसृत्युपक्रमात् - आगत्युपक्रमात्, नाडीप्रवेशात्प्रागित्यर्थः । विदुषोऽपि हि नाडीविशेषेणोत्क्रम्य गतिः श्रूयते -४ “शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति" इति। एवं नाडीविशेषेण गतिश्रवणाद्विदुषोऽप्युत्क्रान्तिरवर्जनीया । सा च नाडीप्रवेशात्याग्विशेषाश्रवणात्समाना । तत्प्रवेशदशायां च विशेषः श्रूयते ५ " तेन
१. छा. ६-८-६ ॥ -२ बृ. ६-४-५॥ - ३. कठ. २-६-१४। ४. क. २-६--५. . ६-४-२ ॥
१६ ॥
For Private And Personal Use Only