SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२८ वेदान्तदीपे [अ.४. --(सिद्धान्तः).... इति प्राप्त उच्यते-भूतेषु-इति । भूतेषु-सम्पद्यते । कुतः १ तच्छ्रुतेः १ "पृथिवीमय आपोमयः...तेजोमयः" इति जीवस्य सञ्चरतस्सर्वभूतमयत्वश्रुतेः ॥ ५॥ ननु तेजःप्रभृतिष्वेकैकस्मिन् क्रमेण सम्पत्तावपि १"पृथिवीमयः" इत्यादिका श्रुतिरुपपद्यते, अत आह नैकस्मिन् दर्शयतो हि।४।२।६॥ नैकस्मिन् , एकैकस्य कार्याक्षमत्वात् । दर्शयतो ह्यक्षमत्वं श्रुतिस्मृती २“अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि तासां त्रिवृतं त्रिवृतमेकैकां करवाणि" इति नामरूपव्याकरणयोग्यत्वाय त्रिवृत्करणमुपदिश्यते । ३"नानावीर्याः पृथग्भूताः ततस्ते संहति विना । नाशक्नुवन् प्रजास्स्रष्टुमसमागम्य कृत्स्नशः। समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः। महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते" इति । अतः ४"प्राणस्तेजसि" इति तेजश्शब्देन भूतान्तरसंसृष्टमेव तेजोऽभिधीयते । अतो भूतेष्वेव सम्पत्तिः ॥६॥ इति श्रीशारीरकमीमांसाभाप्ये भूताधिकरणम् ॥ ४ ॥ वेदान्तसारे-भूतेषु तच्छ्रुतेः ॥ ४" प्राणस्तेजसि" इति भूतान्तरसंसृष्टं तेजोऽभिधीयत इति प्राणा भूतेषु संयुज्यन्ते ॥५॥ नैकस्मिन् दर्शयतो हि ॥ "४ तेजसि" इति न तेजोमात्रे, त्रिवृत्करणश्रुतिस्मृतिभ्यां केवलस्य तेजसोऽनवस्थानात् ॥६॥ ____ इति वेदान्तसारे भूताधिकरणम् ॥ ४ ॥ वेदान्तदीपे-भूतेषु तच्छ्रुतेः ॥ नैकस्मिन् दर्शयतो हि ॥ ४"प्रा. १. १. ६-४-५ ॥--- २. छा. ६-३-२,३॥- ३. विष्णु. १-अं. २.अ. ५२. ५३॥-४, छा. ६.८.६ ।। For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy