________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] इतरक्षपणाधिकरणम् .
४२१ आरब्धकार्ये पुण्यपापे वारब्धफलभोगेन क्षपयित्वा तत्फलभोगसमाप्त्यनन्तरं ब्रह्म सम्पद्यते । ते च पुण्यपापे एकशरीरोपभोग्यफले चेत्तच्छरीरावसाने सम्पद्यते; अनेकशरीरभोग्यफले चेत् तदवसाने सम्पद्यते, भोगेनैव क्षपयितव्यत्वादारब्धफलयोः कर्मणोः । १"तस्य तावदेव चिरं यावन्न विमोक्ष्ये" इति च भोगेन तयोः कर्मणोः विमोक्ष उच्यते, देहावधिनियमाश्रवणात् । तदेवं ब्रह्मविद्यायाः प्रागनुष्ठितमभुक्तफलमनारब्धफलं पुण्यपापरूपं कर्मानादिकालसंचितमनन्तं विद्यामाहात्म्याद्विनश्यतिः विद्यारम्भोत्तरकालमनुष्ठितं च न श्लिष्यति । तत्र पुण्यरूपं सर्व विदुषस्सहदो गृहन्ति, पापं च द्विषन्त इति निरवद्यम् ॥ १९ ॥
इति श्रीशारीरकमीमांसाभाष्ये इतरक्षपणाधिकरणम् ॥ ११ ॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
चतुर्थस्याध्यायस्य प्रथमः पादः ॥ १॥
वेदान्तसारे-भोगेन वितरे क्षपयित्वाऽथ सम्पद्यते ॥ आरब्धकार्ययोः पुण्यपापयोयत्फलम् , तत् एकशरीरावसानमनेकशरीरावसानं वा भुक्त्वैव तदनन्तरं ब्रह्म प्राप्नोति ॥ १९॥
इति वेदान्तसारे इतरक्षपणाधिकरणम् ॥ ११ ॥
इति श्रीभगवद्रामानुजविरविरचिते वेदान्तसारे चतुर्थस्याध्यायस्य
प्रथमः पादः ॥१॥
- -- वेदान्तदीपे-भोगेन वितरे क्षपयित्वाऽथ सम्पद्यते ॥ इतरे आरग्धकार्ये पुण्यपापे, किं विद्यायोनिशरीरावसान एव विनश्येते, उत तच्छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति संशयः। "यावत्र विमोक्ष्ये
१. छा. ६-१४-२॥
For Private And Personal Use Only