________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१९
पा. १.
अग्निहोत्राधिकरणम्. १ "तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्याम्" इति । विद्ययाऽश्लेषविनाशश्रुतिश्च तद्विषया ॥ १७ ॥
अनुष्ठितस्यापि कर्मणः फलप्रतिबन्धसम्भवं पूर्वोक्तं स्मारयतियदेव विद्ययेति हि।४।१।१८॥
२"यदेव विद्यया करोति.. तदेव वीर्यवत्तरम्" इत्युद्गीथविद्यायाः ऋतु फलाप्रतिबन्धफलत्ववचनेनानुष्ठितस्यापि कर्मणः फलप्रतिबन्धस्मूच्यते हि । अतो विदुषोऽनुष्ठितप्रतिबद्धफलविषयं १“सुहृदस्साधुकृत्याम्" इति शाट्यायनकम् ॥ १८ ॥
इति श्रीशारीरकमीमांसाभाष्ये अमिहोत्राद्यधिकरणम् ॥ १० ॥
वेदान्तसारे-अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ।। अग्निहो. श्राव्याधमकर्म, विद्योत्पत्त्याख्यकार्यायैव आप्रयाणादनुष्ठेयं ३ “तमेतं वेदानुवचनेन" इत्यादिना विद्योत्पत्तिकार्यत्वं ह्याश्रमधर्मस्य दृष्टम् ॥ १६॥
अतोऽन्यापि ह्येकेषामुभयोः ॥ १"तस्य पुत्रा दायमुपयन्ति"१"द्विषन्तः पापकृत्यां सुहृदस्साधुकृत्याम्" इत्यादिवचनस्याग्निहोत्रादेरन्याप्यनादिकालप्रवृत्ता साधुकृत्या प्रबलकर्मप्रतिबद्धफला, उत्तरा वृष्ट्यन्नादिविद्यानुगुणफला प्रतिबद्धा चेति पूर्वोत्तरकृतयोरुभयोरप्यस्त्येव विषयः ॥ १७ ॥
यदेव विद्ययेति हि ॥ २ “यदेव विद्यया" इत्यत्र फलप्रतिबन्धोऽ. स्तीति युक्तम् ॥१८॥
इति वेदान्तसारे अग्निहोत्राधिकरणम् ॥ १० ॥
वेदान्तदीपे-अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्।। अग्निहोत्राद्याश्रमधर्मः किं विदुषोऽनुष्ठेयः, उत नेति संशयः । सुकृतदुष्कृतयोरश्लेषविनाशाभिधानादाश्रमधर्मस्यापि सुकृतत्वसाम्येन कार्याश्लेषादननुष्ठेय इति पूर्वः पक्षः।राद्धान्तस्तु आश्रमधर्मस्य तु विद्योत्पत्तिरेव कार्यमिति तत्कार्यायैवा
१॥-२. छा. १-१-१०॥-३. बृ. ६-४-२२ ॥
For Private And Personal Use Only