________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-..- श्रीशारीरकमीमासाभाष्ये अमिहोत्राधिकरणम् ॥)..... अग्निहोत्रादि तु तत्कार्यायैव तदर्शनात्।४।१६
'इतरस्याप्येवमसंश्लेषः इति विद्याबलात्सुकृतस्याप्यसंश्लेष उक्तः, अग्निहोत्रादीनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि मुक्तत्वसामान्येन तत्फलस्याश्लेषादनिच्छतोऽननुष्ठाने प्राप्त उच्यते
___ ---(सिद्धान्तः).... __ अग्निहोत्रादि तु-इति । तुशब्दस्सुकृतान्तरेभ्यो विशेषणार्थः; अनिहोत्राद्याश्रमधर्माः फलाश्लेषासम्भवादनुष्ठेया एव ; तदसम्भवश्व तकार्यार्थत्वात्तेषाम् ; विद्याख्यकार्यायैव हि विदुषोऽग्निहोत्रायनुष्ठानम् । कथमिदमवगम्यते? तदर्शनात ; दृश्यते हि "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इत्यादिनाऽग्निहोत्रादीनां विद्यासाधनत्वम् । विद्यायाश्चाप्रयाणादभ्यासाधेयातिशयाया अहरहरुत्पाद्यत्वात्तदुत्पत्त्यर्थमाश्रमकर्माप्यहरहरनुष्ठेयमेव ; अन्यथाऽऽश्रमकर्मलोपे दूषितान्तःकरणस्य विद्योत्पत्तिरेव न स्यात् ॥ १६ ॥
यदि अग्निहोत्रादिसाधुकृत्या विद्योत्पत्त्यर्थाः, विद्योत्पत्तेः प्राचीनं च सुकृतं २"यावत्सम्पातमुषित्वा" ३"प्राप्यान्तं कर्मणः" इत्यनुभवेन विनष्टम् । भुक्तशिष्टं च पारब्धफलम् ; "सुहृदस्साधुकृत्याम्" इत्यस्य को विषयः ? तत्राहअतोऽन्यापि ह्येकेषामुभयोः।४।१।१७॥
___ अतः-अग्निहोत्रादिसाधुकृत्यायाः विद्योत्पत्त्यर्थायाः अन्यापिविद्याधिगमात्पूर्वोत्तरयोरुभयोरपि पुण्यकर्मणोः प्रवलकर्मप्रतिबद्धफला साधुकृत्याऽनन्ता सम्भवत्येव ; तद्विषयमिदमेकेषां शाखिना वचनं
१. ७-६.४-२२ ॥-२. छा, ५.१०.५॥-३. बृ. ६-४-६ ॥
For Private And Personal Use Only