________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] विधुराधिकरणम्.
३८५ अपि स्मर्यते । ३।४ । ३७॥ अपिच अनामिणामपि जपादिभिरेव विद्यानुग्रहः स्मर्यते१ "जप्येनापि च संसिध्येद्राह्मणो नात्र संशयः। कुर्यादन्यन्न वा कुर्यान्मैलो ब्राह्मण उच्यते" इति । संसिध्येत्-जपाउनुगृहतिया विद्यया सिद्धो भवतीत्यर्थः ॥ ३७॥
विशेषानुग्रहश्च । ३।४।३८॥
न केवलं न्यायस्मृतिभ्यामयमर्थस्साधनीयः श्रूयते चानाश्रमनियतेधर्मविशेषैर्विद्यानुग्रहः २ "तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमविष्येत्" इति ॥ ३८॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च । ३॥ ४॥ ३९॥
तुशब्दोऽवधारणे अतः-अनामित्वात् इतरत्-आश्रमित्वमेव ज्यायः, अनामित्वमापद्विषयम् ; शक्तस्य त्वामित्वमेवोपादेयमित्यर्थः; भूयोधर्मकाल्पधर्मकयोरतुल्यकार्यत्वात्। लिङ्गाच-स्मृतरित्यर्थः । स्मर्यते च शक्तं प्रत्याश्रमस्योपादेयत्वम् ३"अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः" इत्यादिना । निवृत्तब्रह्मचर्यस्य मृतभार्यस्य च अवैराग्ये सति दारालाभ आपत् ॥ ३९ ॥
इति श्रीशारीरकमीमांसाभाष्ये विधुराधिकरणम् ॥९॥
वेदान्तसारे-अन्तरा चापि तु तद्दष्टेः॥ आश्रमानन्तरा वर्तमानो विधुरादिरनाश्रमी; तस्यापि विद्याधिकारोऽस्ति , रैक्वादिग्वनाश्रमिषु प्र. स्यविद्याधिकारदर्शनात् ॥ ३६॥
___ अपि स्मयते। अनाश्रमिणोऽपि जपादिना विद्यानुग्रहः स्मर्यते १"ज. प्येनापि च संसिद्धयेत्" इति ॥ ३७॥ १. मनु. २-८७ ॥-२. प्रश्नोप. १.१०॥-३ ॥
*49
For Private And Personal Use Only