________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८४
श्रीशारीरकमीमांसाभाष्ये
[अ. ३.
सर्वथापित एवोभयलिङ्गात् ।। सर्वथापि उभयत्र विनियोगेऽपि त एव यज्ञादयः । कुतः ? उभयलिङ्गात् – उभयत्र प्रत्यभिज्ञानाख्यलिङ्गात् ॥ ३४॥ अनभिभवं च दर्शयति ॥ १“धर्मेण पापमपनुदति" इत्यादिभिश्व यज्ञादिधर्मानिर्दिश्य तैर्विद्यायाः अनभिभवं - पापकर्मभिरुत्पत्तिप्रतिबन्धाभावं दर्शयति । अत उभयत्र विनियोगात्केवलाश्रमिणां मुमुक्षूणां चानुष्ठेया यज्ञादयः ॥ इति वेदान्तदीपे विहितत्वाधिकरणम् ॥ ८ ॥
श्रीशारीरकमीमांसाभाष्ये विधुराधिकरणम् ॥ ९ ॥ ) --
अन्तरा चापि तु तद्दष्टेः । ३।४।३६॥
८
1
चतुर्णामाश्रमिणां ब्रह्मविद्यायामधिकारोऽस्ति ; विद्यासहकारिण आश्रमधर्मा इति चोक्तम् । ये पुनराश्रमानन्तरा वर्तन्ते विधुरादयः तेषां ब्रह्मविद्यायामधिकारोऽस्ति, नवेति विशये - आश्रमधर्मेतिकर्तव्यताकत्वाद्विद्यायाः, अनाश्रमिणां चाश्रमधर्माभावान्नास्त्यधिकारः— ( सिद्धान्तः ) -
इति प्राप्त उच्यते-अन्तराचापितु - इति । तुशब्दः पक्षव्यावृत्त्यर्थः; चशब्दोऽवधारणे । अन्तरा वर्तमानानाम् - अनाश्रमिणामपि विद्याया - मधिकारोऽस्त्येव । कुतः १ तद्दष्टे :- दृश्यते हि रैक्वभीष्मसंवर्तादीनामनाश्रमिणामपि ब्रह्मविद्यानिष्ठत्वम् । नचाश्रमधर्मैरेव विद्यानुग्रह झीत शक्यं वक्तुम्, २" यज्ञेन दानेन तपसानाशकेन" इति दानादीनामाश्रमेषु ३ अनैकान्तिकानामप्यनुग्राहकत्वदर्शनात् । यथोर्ध्वरतस्सु विद्यानिष्ठत्वदर्शनादग्निहोत्रादिव्यतिरिक्तैरेव विद्यानुग्रहः क्रियते; तथाऽनाश्रमिष्वपि विद्यादर्शनादाश्रमानियतैर्जपोपवासदानदेवताराधनादिभिर्विद्यानुग्रहश्श
Acharya Shri Kailassagarsuri Gyanmandir
क्यते कर्तुम् ।। ३६ ।।
१. तै. ना, ५० - अनु ॥ २. बृ. ६-४-२२ ॥ ३. अनेकान्तानां पा ॥
For Private And Personal Use Only