________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.४.)
पारिवाधिकरणम् . तथा चैकवाक्योपबन्धात् । ३।४।२४॥
"आत्मा वा अरे द्रष्टव्यः" इत्यादिविधिनैकवाक्यतयोपबन्धाबाख्यानानां विद्याविध्यर्थान्येव तानीति गम्यते; यथार "सोऽरोदीत" इत्येवमादेः कर्मविध्यर्थत्वम् ; न पारिप्लवार्थत्वम् ॥ २४ ॥
इति भीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम् ॥ ३ ॥
वेदान्तसारे-पारिप्लवार्थी इति चेन विशेषितत्वात् ॥ वेदान्तेषु तत्तद्विद्यारम्भेऽधीताः ३"प्रतई नो ६ घे" इस्याद्याख्यायिकाः पारिनुवार्थाः, ४"आख्यानानि शंसन्ति" इति तत्र विनियोगात्-इतिचेत्न तत्रैव ५"म. नुवैवस्वतः” इत्याद्याख्यानानां विशेषितत्वात् तेषामेष तत्र विनियोगः ॥२३॥
तथा चैकवाक्योपबन्धात् ॥ विद्याविधिनैकवाक्यत्वाच "सोऽरोदीत्" इत्यादिवत् विद्यास्तुस्यों एताः २४ ॥
इति वेदान्तसारे पारिप्लवायधिकरणम् ॥ ३ ॥
वेदान्तदीपे-पारिप्लवार्था इति चेम विशेषितत्वात् । तथा चैकवाक्योपबन्धात् ।। ३"प्रतर्दनो ह वै दैवोदासिः" इस्यादयो घेदान्तेवाल्या. नविशेषाः किं पारिप्लवप्रयोगार्थाः, उत सत्रतत्र विद्याविशेषप्रतिपादनार्थाः इति संशयः। "आख्यानानि शंसन्ति" इति पारिप्लवे विनियोगात्तदर्था इति पूर्वः पक्षः । रादान्तस्तु-४'आख्यानानि शंसन्ति" इत्युक्त्वा ५"मनुर्वैवखतो राजा" इति मन्वाद्याख्याने विनियोगस्य विशेषितत्वात् , ३"तं मामायुरमृतमित्युपास्व" १"आत्मा वा अरे द्रष्टव्यः" इत्यादिविधिनैकवाक्यत्वाच, .२ "सोऽरोदीत्" इत्यादिवद्विद्याविध्यर्था एवास्त्रद्वयमपि व्याख्यातम्॥२३,२४॥
इति वेदान्तदीपे पारिप्लवार्थाधिकरणम् ॥ ३ ॥
१. .. ६.५-६॥-२. यदु. १.५-१।-३, को. ३-१ ॥-४।।-५॥
For Private And Personal Use Only