________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
भरतरत्वाधिकरणम्. न्ति यथा इतरत्र सद्विद्यायामपि ॥ ३६॥
प्रश्नाद्यावृत्तौ कथमैक्यमित्यत्राह
सैव हि सत्यादयः॥ १“सेयं देवतैक्षत'' इति प्रस्तुता देवतैव सवत्र प्रश्नगता । प्रतिवचनेषु च २"तत्सत्यं स आत्मा" इत्यादय इत्यैक्यम् ॥
इति वेदान्तसारे अन्तरत्वाधिकरणम् ॥ १५ ॥ वेदान्तदीपे-अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा प्रतिवचनभेदानुपपत्तिरितिचेन्नोपदेशवत्।। बृहदारण्यके उषस्तप्रश्नप्रतिवचनं ३“यः प्रा णेन प्राणिति स त आत्मा सर्वान्तरः योऽपानेनापानिति स त आत्मा” इत्यादि ३''अतोऽन्यदातम्" इत्यन्तमाम्नातम् । तथा तदनन्तरं कहोलप्रश्नप्रतिवचनं ४“योऽशनायापिपासे शोकं मोहं जरांमृत्युमत्येति एतं हैतमात्मानं विदित्वा" इत्यादि ४' अतोऽन्यदार्तम्" इत्यन्तम् । किमुभयत्र विद्यैश्यम् , उत विद्याभेद इति संशयः । पूर्वत्र प्राणनादिहतुः प्रत्यगात्मा, उत्तरत्राशनायाद्यतीतः परमास्मेत्युपास्यभेदाद्विद्याभेदः-इति पूर्वः पक्षः । राद्धान्तस्तु-३'यत्साक्षादपरो. क्षाब्रह्म य आत्मा सर्वान्तरः तन्मे व्याचक्ष्व'' इति उभयत्र प्रश्नस्य परमात्मवि षयत्वादेकरूपत्वाच, सर्वप्राणिप्राणनापाननादिहेतुत्वस्य अशनायाद्यतीतत्वस्य च प्रतिवचनद्वयावगतस्य परमात्मन्येकस्मिन्नेवोपास्ये सम्भवाच, न विद्याभेदः। सूत्रार्थस्तु-अन्तरा ३“य आत्मा सर्वान्तरः" इत्युषस्तप्रश्नो भूतग्रामवत्स्वा त्मनः--प्रत्यगात्मन इत्युपगन्तव्यः अन्यथा प्रतिवचनभेदानुपपत्तिरिति चेत्नात्र प्रत्यगात्मपरमात्मविषयं प्रश्नद्वयं, प्रतिवचनद्वयं च परमात्मन्येकस्मिन्नेवोपास्ये सम्भवतीत्यर्थः । उपदेशवत् ५ स्तब्धोऽस्युत तमादेशमप्राक्ष्यः” इति प्रक्रान्तायामेकस्यामेव सद्विद्यायां ६"भगवांस्त्वेव मे तद्रवीत्विति" ७"भूय एव मा भगवान्विज्ञापयतु" इत्यादिका प्रश्नावृत्तिः, प्रतिवचनभेदधोपास्यमाहात्म्यविशेषप्रतिपादनपरत्वेन दृश्यते; तद्वत् ॥३५॥
प्रष्ट्रभेदपूर्वकप्रतिवचनप्रकारभेदाद्विद्याभेदोऽवर्जनीय एवेत्याशङ्कयाह
व्यतिहारो विशिंषन्ति हीतरवत् ॥ ४“यदेव साक्षादपरोक्षारहा य आत्मा सर्वान्तरः" इति द्वयोः प्रष्ट्रोः प्रश्नस्यैकरूपत्वेनैकविषयत्वे निश्चिते सत्यु. षस्तकहोलयोः प्रतिवचनगतबुद्धिव्यतिहारः कार्य प्राणनादिहेतुत्वबुद्धिस्स
१. छा. ६-३-२ ।।--२. छा.६-१६-३ ॥-३. वृ. ५.४-१,२॥-४.१.५-५-१॥ -५. छा. ६.१.३ ।। --- ६. छा. ६-१-७ ।।---७. छा. ६-५-४ ॥
For Private And Personal Use Only