________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तसारे
[म... उत्तरवाक्ये अक्ष्यादित्यस्थानभेदेन विद्याभेदस्य पूर्वमेव "न वा विशेषात्" इत्यनेन प्रतिपादितत्वात् । नच द्वयोरनयोाहत्यादिशरीरकत्वेन रूपवतोः २ "हन्ति पाप्मानं जहाति च य एवं वेद" इति पृथक्संयोगचोदनावतोयोरुपासनयोः ३“स यो हवै तन्महद्यक्ष प्रथमजं वेद सत्यं ब्रमेति जयतीमान् लोकान्" इति संयोगरूपादिमत्तया निरपेक्षेण पूर्वेणैकेनोपासनेनाभेदस्सम्भवति । नच २"हन्ति पाप्मानं जहाति" इति गुणफलाधिकारत्वम् , प्रमाणाभावात् । पूर्वेणैकविद्यात्वं प्रमाणमिति चेत्न, इतरेतराश्रयत्वात् । एकविद्यात्वे निश्चित पूर्वफलस्यैव प्रधानफलत्वे. नोत्तरयोः फलयोर्गुणफलत्वम् , तयोर्गुणफलत्वे निश्चिते सति संयोगभेदाभावात्पूर्वेण विद्यै क्यमितीतरेतराश्रयत्वमित्येवमादिभिर्यथोक्तप्रकारमेव सूत्रद्वयम् ॥ ३७॥
इति श्रीशारीरकमीमांसाभाष्ये अन्तरत्वाधिकरणम् ॥ १५ ॥
वेदान्तसारे-अन्तरा भूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेनोपदेशवत् ॥ ४'य आत्मा इत्युषस्तप्रश्नः भूतग्रामवत्प्रत्यगात्मविषयः। अन्यथा ४'यः प्राणेन प्राणिति स त आत्मा" इति प्रतिवचनस्य कहोलविषयादशनायाद्यतीतत्वादेः भेदानुपपत्तिरितिचेत्न , ५“य आत्मा सर्वान्तरः'' इत्युभयत्र प्रश्नकरूप्यात् परमात्मैवोभयत्र प्रतिवचनगतः। प्राणनादिहेतुत्वमशनायाद्यतीतत्वञ्च परमात्मन्येवोपपद्यते । प्राणनादिहेतुत्वं हि परमात्मन एव६'को ह्येवान्यात्कः प्राण्यात्' इत्यादिश्रुतेः। सद्विद्यापदेशवत् प्रश्नप्रतिवचनावृत्तिरेकविषया ॥ ३५ ॥
७अष्टभेदोपि न भेदकः इत्याह
व्यतिहारो विशिंषन्ति हीतरवत्।। अथैक्ये निश्चिते सति प्रष्ट्रोर्बुद्धिव्यतिहारः कार्यः । उषस्तेनाशनायाद्यतीतत्वधीः कार्या; कहोलेनापि प्राणना. दिहेतुत्वधीः कार्या । उभयत्र प्रकरणगतवाक्यानि हि परमात्मानमेव विशिष
१. शारी. ३-३-२१॥-२. वृ. ७-५-२॥-३, इ. ७-४ १॥-४. इ. ५.४. १॥-५. वृ. ५-५-१ ॥-६. ते. आन, ७-१॥-७. प्रष्टुभेदादपि न भेद इत्याह. पा ॥
For Private And Personal Use Only