________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभावे [भ. २० १"वायुश्चान्तरिक्षं चैतदमृतम्"२ "सैषाऽनस्तमिता देवता यदायुः" इतिवचिरकालावस्थायित्वेन परिणेतुं शक्या,३"असता इदमग्र आसीत्" इति कृत्स्नपपञ्चप्रलयवेलायामप्यवस्थितत्वश्रवणात् । उत्पत्तिवादिन्यस्तु जीवोत्पत्तिवादिन्य इव नेतव्या इति ॥
--(सिद्धान्तः) --- __ एवं प्राप्तेऽभिधीयते-वियदादिबदेव प्राणाश्चोत्पद्यन्ते कुतः१ ४"सदेव सोम्येदमग्र आसीत् " ५" आत्मा वा इदमेक एवाग्र आसीत्" इ. त्यादिषु पाक्सृष्टरेकत्वावधारणात्,६"एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च" इतीन्द्रियाणामुत्पत्तिश्रवणाच, प्रागवस्थानासम्भवात् । नचात्मोत्पत्तिवादवदिन्द्रियोत्पत्तिवादाः परिणेतुं शक्याः, आत्मवदुत्पत्तिातिषेधश्रुतीनां नित्यत्वश्रुतीनां चादर्शनात् ।३." असदा इदमग्र आसीत्" इत्यादिवाक्येऽपि प्राणशन्देन परमात्मैव निर्दिश्यते । ७" सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युजिहते" इति प्राणशब्दस्य परमात्मन्यपि प्रसिद्धः। ३"प्राणा वा व ऋषयः" इति ऋपिशब्दव सर्वज्ञे तस्मिन्नेव युज्यते । न त्वचेतनेष्विन्द्रियेषु ॥ १॥
ऋषयः, प्राणा इति च बहुवचनश्रुतिः कथमुपपद्यत इति चेत्तलाहगौण्यसम्भवात्तत्प्राक्छ्तेश्च । २।४।२॥
बहुवचनश्रुतिर्गौणा, बहर्थासम्भवात् । तस्यैव परमात्मनः सृष्टेः प्रागवस्थानचतेरेव ॥२॥
तत्पूर्वकत्वाद्वाचः। २।४।३॥ इतश्च प्राणशन्दः परमात्मवचनः वाचः - परमात्मव्यतिरिक्तवि१. कृ. ४ ३-३ ॥--२.-३. शतपथ, ६-१-१॥–४. शं. ६२.१ ॥-५. रेत. १-अ. १-खं. १॥-६, मु. २-१-३॥-७. . १-११-५॥
For Private And Personal Use Only