________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
-
श्रीमते रामानुजाय नमः श्रीभगवद्वामानुजविरचिते
श्रीशारीरकमीमांसाभाष्ये ---(द्वितीयाध्याये - चतुर्थः पादः-प्राणोत्पत्त्यधिकरणम् ॥)...
तथा प्राणाः। २।४।१॥ ब्रह्मव्यतिरिक्तस्य वियदादेः कृत्स्नस्य कार्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्यत्वेऽपि वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता; तत्मसङ्गेन जीवस्वरूपं शोधितम् । सम्पति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते । तत्र किमिन्द्रियाणां कार्यत्वं जीववत् । उत वियदादिवदिति चिन्त्यते । किं युक्तम् ? जीववदेवेत्याह पूर्वपक्षीतथा प्राणाः इति । प्राणाः-इन्द्रियाणि। यथा जीवो नोत्पद्यते; तथेन्द्रियाण्यपि नोत्पद्यन्ते । कुतः ? श्रुतेः । यथा जीवस्यानुत्पत्तिः श्रुतेरवगम्यते; तथा प्राणानामप्यनुत्पत्तिः श्रुतेरेवावगम्यते। तथा प्राणा इति २प्रमाणमप्यतिदिश्यते।का पुनरत्र श्रुतिः१२ “असद्वा इदमग्र आसीत् तदाहुः किं तदासीदिति ऋषयो वा व ते अग्रे सदासीत् तदाहुः के ते ऋषय इति माणा वा व ऋषयः" इति जगदुत्पत्तेः प्रागिन्द्रियाणां सद्भावः श्रूयते । प्राणशब्दे बहुवचनादिन्द्रियाण्येवेति निश्चीयते । नचेयं श्रुतिः
१. प्रमाणमपि प्रतिदिइयसे. पा॥-२. शतपथ. ६-१-१॥
For Private And Personal Use Only