________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३. शाधिकरणम्
१४९ आत्मा निष्कामति" १"ये वैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति " २ "तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे" इत्याद्युत्क्रान्तिगत्यागतीनां श्रवणादणुर्जीवः ॥ २०॥
स्वात्मना चोत्तरयोः।। चशब्दोऽवधारणार्थः; यद्यप्युत्क्रान्तौ स्थितस्य शरीरविश्लेषेण कथंचित्संपाद्यत्वमस्ति उत्तरयोः-गमनागमनयोस्तु स्वात्मनैव सम्पाद्यत्वमवश्याभ्युपेयम् ॥ २१ ॥
नाणुरतच्छ्रतेरिति चेन्नेतराधिकारात् ॥ ३" योऽयं विज्ञानमयः" इति जीवं प्रस्तुत्य ४" स वा एष महानज आत्मा' इति महत्त्वश्रुतेः नाणुः जीव इति चेन्न; इतराधिकारात्-जीवेतरपरमात्माधिकारात्-५"यस्यानुवित्तः प्रतिषुद्ध आत्मा" इति हि मध्ये परमात्मा प्रस्तुतः ॥ २२॥
स्वशब्दोन्मानाभ्याश्च ॥ ६ ॥ एषोऽणुरात्मा चेतसा वोदतव्यः यस्मिन्प्राणः पञ्चधा संविवेश" इति साक्षादणुशब्दादणुरेवायम् । उन्मानाच्चाणुरेव। उन्मानम् - उद्धत्य मानम्। ७'आराममात्रो ह्यवरोपि दृष्टः"इत्याराअमुद्धत्य तन्मानत्वं हि जीवस्य श्रूयते ॥ २३ ॥ _ आत्मनोऽणुपरिमाणत्वे सकलदेहव्यापिसुखाद्यनुभवः कथमित्यत्र मतान्तरेण परिहारमाह
अविरोधश्चन्दनवत् ॥ यथा हरिचन्दनबिन्दुः देहैकदेशवर्त्यपि सकलदेहवर्तिनमाहादं जनयति, तद्वदविरोधः ॥ २४ ॥
अवस्थितिवशेष्यादितिचेन्नाभ्युपगमाद्धृदिहि। चन्दनबिन्दोर्दैहैकदेशविशेषस्थित्यपेक्षस्तथाभावः; आत्मनस्तु न तथेति चेन्न, आत्मनोऽपि तथाभावाभ्युपगमात्; हृदि ह्ययमात्मा स्थितः" इति श्रूयते ६" योऽयं विज्ञानमयः प्रा. णेषु हृद्यन्तज्योतिः" इत्यादौ ॥२५॥
स्वमतेनाह ---
गुणाद्वाऽऽलोकवत्।। वाशब्दो मतान्तरव्यावृत्त्यर्थः ; आत्मा स्वगुणेन मानेन सकलदेहं व्याप्यावस्थितः ; यथा शुमणिमणिप्रभृतीनामेकदेशवर्तिनामालोकः तद्गणः अनेकदेशव्यापी दृश्यते ॥ २६॥
१. कौषी. १.२॥--२. वृ. ६-४-६ ॥-३. वृ. ६-३-७॥--४. १. ६-४-२५॥५. 1. ६-४-१३॥--६. मु. ३-१-९॥-~-७. श्वे. ५.८॥
For Private And Personal Use Only