________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८ वेदान्तदीपे
भि.२. मात्रसर्वगतात्मवादे तावन्नित्यवत्सर्वदोपलब्धिस्स्यात् ; सङ्कोचकामावा - द्विद्यमानाया अनुपलब्धेरपि सैव हेतुरिति साऽपि नित्यवत्स्यात् , झाने विद्यमानेऽपि हेत्वन्तरेण निवारणासम्भवात्। आगन्तुकशानसर्वगतात्मवादेऽपि स एव दोषः; सर्वात्मनां सर्वगतत्वेन शानहेतूनां मनस्संयोगादीनां सर्वसाधारणत्वात् । अदृष्टहेतूनामपि सर्वसाधारणत्वात् तेनापि न नियमः, अथोपलब्ध्यनुपलब्ध्योर्विरोधादुपलब्धेर्वैते हेतवः स्युः; अनुपलब्धेर्वा ; तथा सत्यन्यतरनियमस्स्यात् ॥ ३२॥
इति वेदान्तसारे ज्ञाधिकरणम् ॥ ४ ॥
वेदान्तदीपे-ज्ञोऽत एव ॥ किं जीवः चैतन्यमात्रवपुः ? उत जडस्वरूप एवागन्तुकचैतन्यगुणः; अथ शातृत्वैकस्वरूप इति संशयः । चैतन्यमात्रयपुरिति प्रथमः पक्षः।१"विज्ञानं यज्ञं तनुते” २ "यो विज्ञाने तिष्ठन्"३ "ज्ञानस्वरूपमत्यन्तनिर्मलम्" इत्यादिश्रुतिस्मृतिभ्यः । द्वितीयस्तु-सुषुप्तिमूर्छादिषु सतोऽप्यात्मनश्चैतन्यानुपलब्धेः, जाग्रतोऽपीन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वाञ्चैतन्यस्य,४"न प्रेत्य संशास्ति" इति मुक्तस्य चैतन्यप्रतिषेधाच,पाषाणकल्प एवागन्तुकचैतन्यगुणः । सर्वत्र कार्योपैलब्धेस्सर्वत्र सनिधानात्, शरीरगमनेनैव कार्यसम्भवे गतिकल्पनायोगात् , सर्वगतश्चेति । राद्धान्तस्तु -५“अथ यो वेदेदं जिघ्राणीति स आत्मा मनसैतान्कामान्पश्यत्रमते" "न पश्यो मृत्यु पश्यति"सर्व ह पश्यः पश्यति'७"द्रष्टा श्रोता घ्राता रसयिता" इत्यादिश्रुतिभ्यो बद्धमुक्तोभयावस्थो ज्ञातैवात्मा । शानमात्रव्यपदेशस्तु शानस्य प्रधानगुणत्वात्, स्वरूपानुबन्धित्वेन स्वरूपनिरूपकगुणत्वात् , आत्मस्वरूपस्य ज्ञानवत्स्वप्रकाशत्वाद्वोपपद्यते । सुषुप्तिमूर्छादौ सदेव शानं कर्मणा संकुचितमनभिव्यक्तमपि जागरादौ विकसितमभिव्यज्यत इति न विरोधः । ४"न प्रेत्य संज्ञाऽस्ति" इति सांसारिकदेहाद्यस्मरणविषयम्, ८'नोपजनं स्मरन्निदं शरीरम्" इत्यादिनैकार्थ्यात् । सर्वगततत्वन्तु अणुत्वगत्यादिश्रुतिविरुद्धम् । सूत्रार्थस्तु-शोऽत एव-अतः - श्रुतेः शातैव ॥ १९ ॥
उत्क्रान्तिगत्यागतीनाम्॥ श्रुतेः इति वर्तते । ९" तेन प्रद्योतेनैष १. ते. आन. ५.१॥----२. बृ. ५-७-२२॥--३. वि-पु.१-२-६॥--४.बृ.४-४-१२॥ --५. छा, ८-१२-४ ॥-६. छा. ७-२६-२॥-७. प्रश्न, ४-९ ॥--८, छा.८-१२-३॥ ---९.३.६-४-२॥
For Private And Personal Use Only