________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.]
समुदायाधिकरणम् समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ समवायाभ्युपगमाव असमञ्जसम्; समबायो हि जातिगुणादीनां द्रव्यविशेषापृथविकसद्धिहेतुतयाऽभ्युपगम्यते ; समवायस्यापि तथाभावे हेत्वपेक्षासाम्यादनवस्थितेः; समवायस्य तथाभावस्स्वाभाविक इति चेत् --जातिगुणादीनामेवैष खभाव इति यु. क्तम् ॥ १२॥
इतश्च
नित्यमेव च भावात् ॥ समवायसम्बन्धस्य नित्यत्वाभ्युपगमात्, सम्बन्धिनित्यत्वमन्तरेण तदनुपपत्तेः, अवयवावयविनोरुभयोरपि नित्यमेव भावात् कार्यकारणभाव एव न सिद्ध्यति ॥ १३॥
रूपादिमत्त्वाच विपर्ययो दर्शनात्।। परमाणूनां नित्यत्वनिरवयवत्वा दिविपर्ययश्च स्यात् , रूपादिमत्त्वात्तेषाम् , घटादिषु रूपादिमत्सु तथा दर्शनात् ; दर्शनादेव हि त्वदभिमतं परिकल्प्यते ॥ १४॥
उभयधा च दोषात् ॥ अनित्यत्वादिभयात्परमाणूनां रूपादिशून्यत्वे कार्यगुणस्य कारणगुणपूर्वकत्वासिद्धिः; तत्सिद्धये रूपादिमत्त्वे चानित्यत्वादिदोषप्रसक्तिरिति उभयधा च दोषादसमासमेव ॥ १५॥ ___अपरिग्रहाचात्यन्तमनपेक्षा ॥ कापिलपक्षे हि श्रुतिन्यायविरुद्धेऽपि सत्कार्यवादादि किञ्चिद्वैदिकैः परिगृह्यते; काणादे तु कस्यचिदप्यंशस्य बैदिकैः परिग्रहाभावादनुपपन्नत्वाच निःश्रेयसार्थिभिरत्यन्तमनपेक्षा कार्या ॥ १६॥
___ इति वेदान्तदीपे महद्दीर्घाधिकरणम् ॥ २ ॥
...(श्रीशारीरकमीमांसाभाष्ये समुदायाधिकरणम् ॥ ३ ॥r..
समुदाय उभयहेतुकेऽपि तदप्राप्तिः ।२।२।१७॥
परमाणुकारणवादिनो वैशेषिका निरस्ताः; सौगताश्च जगतः परमाणुकारणत्वमभ्युपगच्छन्तीत्यनन्तरं तन्मतेऽपि जगदुत्पत्तितद्व्यवहारादिकं नोपपद्यत इत्युच्यते। ते चतुर्विधाः केचित्पार्थिवाप्यतैजसवायवीयपरमाणुसङ्घातरूपान् भूतभौतिकान् बाह्यांश्चित्तचैत्तरूपांश्चाभ्यन्तरानन्
*12
For Private And Personal Use Only