________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदान्तदीपे
[म. २.
रूपादियत्त्वाचविपर्ययो दर्शनात् ॥ परमाणूनां रूपादिमत्त्वाग्नित्यत्वादिविपर्ययश्च, घटादिषु तथा दर्शनात् ॥ १४ ॥
उभयधा च दोषात् ।। अनित्यत्वादिभयाद्रूपादिशून्यत्वे कारणगुणपूर्वकत्वासिद्धिः, नद्भयापादिमत्वे च अनित्यत्वादिरिति उभय वा च दोषादसमञ्जसमेव ॥ १५॥
अपरिग्रहाचात्यन्तमनपेक्षा ॥ काणादपक्षे कस्याप्यंशस्य वैदिकैरपरिग्रहादनुपपन्नत्वाच अत्यन्तमनपेक्षा ॥ १६॥
इति वेदान्तसारे महद्दीर्घाधिकरणम् ॥ २ ॥ वेदान्तदीपे-महदीर्घवद्वा हस्वपरिमण्डलाभ्याम् ।। कि काणादा भ्युपागतः परमाणुकारणवादः समीचीनयुक्तिमूलः ? उत नेति संशयः । समीचीनयुक्तिमूल इति पूर्वपक्षः, अवयवसंयोगादवयव्युत्पत्तेर्दर्शनात् ; अवयवाल्पत्वप्राचुर्याभ्यां सर्षपमहीधरवैषम्यदर्शनाच अवयवाल्पत्वकाष्ठाऽवश्या भ्युपगमनीयेति परमाणुसिद्धिः । ते चतुर्विधाः परमाणवो विपाकदशापनक्षे. शादृष्टसचिवाः परमेश्वराविष्ठिताः घाणुकादिक्रमेणजगदारम्भका इति । राद्धान्तस्तु-अवयावास्स्वकीयैष्षभिः पाइँस्संयुज्यमानास्स्वस्मान्महान्तमवयविनमुत्पादयन्तीति परमाणुष्वपि तथैवोत्पादकत्वमभ्युपेतव्यम् । तथा सति परमाणवोऽपि सांशास्स्वकीयैरवयवैः, तेच स्वकीयैरिति न क्वचित्कारणस्य व्यवस्थितिः । सूत्रार्थस्तु-महदीर्घवद्वा हवपरिमण्डलाभ्याम्-असमञ्जसमिति वर्तते, वाशब्दश्चार्थे, इस्वपरिमण्डलाभ्यां घणुकपरमाणुभ्याम् , महहीर्घवत्-त्र्यणुकाणुकोत्पत्तिवदन्यञ्च तदभ्युपगतं सर्वमसमञ्जसम् ॥ १०॥
द्यणुकादिक्रमेणारम्भकत्वं कारणानवस्थितेरसमञ्जसम् । किमत्रान्यदसमअसमित्यत्राह
उभयधापि न कर्मातस्तदभावः ॥ परमाणूनामाचं कर्म अदृष्टकारितमित्यभ्युपगम्यते, तददृष्टं किमणुगतम् , उत क्षेत्रगतम्। उभयधाऽप्यदृष्टस्य अकादाचित्कत्वेन सदोत्पादकत्वप्रसङ्गात्कादाचित्कं कर्म न सम्भवति । अतः कर्मणा परमाणुसंयोगाभावः। विपाकापेक्षत्वेऽपि नानाविधानन्तादृष्टानामेकदैवैकरूपविपाकश्च न सम्भवति । आनुमानिकेश्वरासिद्धरीश्वरेच्छयापि नियमो न सम्भवति ॥११॥
For Private And Personal Use Only