________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चाएतन्मते चिदचिदात्मकप्रपञ्चस्य ब्रह्मणश्च सत्यत्वमङ्गीकृत्य तयोश्शरीरशरीरिभावसम्बन्धाभ्युपगमेन लोके शरीरस्य जीवात्मनश्चात्यन्तभेदेऽपि 'चैत्र एकः' इत्यादिरेकत्वव्यवहारो यथा दृश्यते, तहापि चिदचिच्छरीरकस्य ब्रह्मण एकत्वव्यपदेशः परस्परं स्वरूपभेदश्च यु. ज्यते । तदुक्तं श्रीमन्नयायसिद्धाञ्जने--"अशेषचिदचिदचित्प्रकार ब्रह्मैकमेव तत्त्वम् इदमेवचेत्थम्भूतं सामान्यतः प्रमाविषयतया विशेषतः प्रकर्षण मेयतया च प्रमेयमित्युच्यते । तत्र प्रकारप्रकारिणोः प्रकाराणां च मिथोऽत्यन्तभेदेऽपि विशिष्टैक्यादिविवक्षया ऐक्यव्यपदेशः, तदितरनिषेधश्च''-इति। एतेन विशिष्टाद्वैतशब्दार्थोऽर्थाद्विवृतो भवति। नन्वस्मिन्मते मतान्तरवादिभिरनभ्युपगता अनेकेऽर्था नित्यसूरिसद्भावादयोऽङ्गीकृताः, तत्किमित्येभिर्न व्यपदिश्यते । उच्यते-तेष्वभ्युपगतेष्वस्यैव शरीरशरीरिभावसम्बन्धस्य प्रधानप्रतितन्त्रत्वात् ; तल प्रतिनियतं तन्त्रमिति व्युत्पत्त्या अन्यसिद्धान्तिभिरनभ्युपगततत्तन्मतासाधारणार्थः प्रतितब्रशब्दाभिधेयः ; तदुक्तं न्यायसारे--- "स्वतन्त्रमात्रसिद्धस्तु प्रतितन्त्रोऽभिधीयते” इति । ते चास्मिन्मते नित्यसूरिसद्भावादिकाः ; तेष्वप्यस्य सम्बन्धस्य प्रधानत्वात् प्रधानप्रतितन्त्रमिति व्यवह्रियते । किं नाम प्राधान्यमस्यार्थस्येति चेत्स र्वश्रुत्यर्थतत्त्वावबोधकत्वं सर्ववादिविजयावहत्वं चेति ब्रूमः । तच्चोक्तम्-'आधेयत्वप्रभृतिनियमैरादिकर्तुश्शरीरं सत्तास्थेमप्रयतनफलेष्वेतदायत्तमेतत् । विश्वं पश्यन्निति भगवति व्यापकादर्शहष्टे गम्भीराणामकृतकगिरां गाहते चित्तवृत्तिम् ॥ यद्येत यति सार्वभौमकथित विद्यादविद्यातमः प्रत्यूषं प्रतितन्त्रमन्तिमयुगे कश्चिद्विपश्चित्तमः । तत्रैकत्र झडित्युपैति विलयं तत्तन्मतस्थापनाहेवाकप्रथमानहैतुककथाकल्लोलकोलाहलः" इति । अस्यार्थस्य सर्वश्रुत्यर्थतत्त्वावबोधकत्वमित्थमुपवर्णितम्-"मिथो भेदं तत्त्वेष्वभिलपति भेदश्रुतिरथो विशिष्टैक्यादैक्यश्रुतिरपि च सार्या भगवती । इमावौँ गोतुं निखिलजगदन्तर्यमयिता निरीशो लक्ष्मीशश्रुतिभिरपराभिः प्रणिदधे"--इति । इदमत्राकूतम्- "पृथगात्मानं प्रेरितारं च मत्वा" 'ज्ञाशौ द्वावजावीशनीशौ" "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" इत्यादिका भेदश्रुतिः, "नेह नानास्ति किञ्चन" "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' “सर्वं खल्विदं ब्रह्म'' इत्यादिका अभेदश्रुतिः, “यस्यात्मा शरीरम्' यस्य पृथिवी शरीरम्” “य आत्मनि तिष्ठन्' इत्यादिका घटकश्रुतिः । आसुच श्रुतिषु अद्वैतिभिः भेदश्रुतयः औपचारिकाः बाधितार्था वा स्वीकर्तव्याः; तथा द्वैतिभिभेदश्रुतयोऽङ्गीकर्तव्याः ; उभयैरपि घटकश्रुतयस्तथैव वर्णनीयाः। विशिष्टाद्वैतिमतेतु लोकदृष्टशरीरशरीरिन्यायेन शरीरस्य शरीरिणश्च परस्परं भेदस्यानुभाविकतया तादृशभेदबोधकत्वेन भेदश्रुतयः, 'चैत्र एकः' इतिवत् विशिष्टस्य शरीरिण एकत्वेन अभेदश्रुतयः, एतादृशसम्बन्धबोधकत्वेन घटकश्रुतयश्च मुख्या अबाधिताश्चाङ्गीकृताः-इति । अतः सर्वश्रुतिमुख्यार्थावबो
For Private And Personal Use Only