________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नार्यस्य अनन्तरकर्तव्यशेषे यथाक्रम निर्वृत्ते लक्ष्मणार्योऽयं तुर्याश्रमश्रीपरिकर्मितः कूरनाथकुरुकेशदाशरथिप्रभृतिभिरन्तेवसद्भिः परिवृतस्तेषां तत्त्वार्थानुपदिदेश । अथ कदाचिद्दिगन्तवास्तव्यप्रतिमतकथकविजयाय प्रस्थितो वाराणस्यां सरस्वतीभण्डारमभ्ययात् । तत्र च भारती स्वयमेवास्याभिमुखमागत्य "तस्य यथा कप्यास पुण्डरीकम्' इत्यस्याः श्रुतेरथै बहि ---इत्यपृच्छत् । यतिपतिरयं सम्यगर्थे न्यरूपयत् । तच्छ्रुत्वातितुष्टा तुष्टाव तं शारदा । तस्कृतं च भाष्यं स्वशिरसा सम्भाव्य ‘तवैवेदं श्रीभाष्यकार इति नाम युज्यते' इत्युक्त्वा सादरं तं व्यसृजत् । एवमयं संयमिसार्वभौमः "गाथा ताथागतानां गलति गमनिका कापिली क्वापि लीना क्षीणा काणादवाणी द्रहिणहरगिरस्सौरभं नारभन्ते । क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवारवान्तं का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदी त्रिवेदीम्' इति विशिष्टाद्वैतसिद्धान्तं सर्वतोमुखयन् तत्परिपन्थिनश्च वादाहवैर्निरुन्धन्नुवास । अस्य चाचार्याः पञ्च-महापूर्णः पञ्चसंस्कारादिसर्वार्थोपदेष्टा, भीशैलपूर्णः श्रीरामायणोपदेष्टा, गोष्ठीपूर्णः रहस्यार्थशिक्षकः, श्रीरङ्गनाथगुरुः द्रविडोपनिषदुपदेष्टा, श्रीमालाधरगुरुस्तदर्थोपदेष्टा ; श्रीकाञ्चीपूर्णस्तु वार्ताषट्कं हस्तिगिरिमस्तकभूषणाद्वरदादुपश्रुत्य कथनेनोपकारकतया स्वीकृतः । ताश्च वास्सिंगृहीताः-"परं तत्त्वं सोऽहं प्रपदनमुपायोऽन्तिमदशास्मृतेनैवापेक्षा वपुरपगमे मोक्षगमनम् । विशिष्टाद्वैतं स्वं मतमपि महापूर्णभजनं घडप्य
नेतानुपनिषदिवाहौपनिषदः" इति । तत्कृताः प्रबन्धाश्च नव-(१)वेदान्तसारः (२)वेदान्तदीपः (३) वेदार्थसङ्ग्रहः (४) श्रीभाष्यम् (५) श्रीरङ्गगद्यम् (६) श्रीवैकुण्ठगद्यम् (७) शरणागतिगद्यम् (८) गीताभाष्यम् (९) नित्यग्रन्थश्च-इति । अस्य वैभवातिशयस्तु सहस्रवदनेनापि न निरूपयितुं शक्य इति ग्रन्थविस्तरभिया न लिख्यतेऽस्माभिः, गुरुपरम्पराप्रपन्नामृतादिग्रन्थेषु विशदमनुसन्धेयः ॥
___ अथ विशिष्टाद्वैतसिद्धान्तशब्दस्य कोऽर्थः ? , कथमस्य यतीन्द्रमतस्य तच्छन्दवाच्यत्वम् ? इति चेत्--अत्र किं चिदुच्यते-सिद्धान्तशब्दः प्रामाणिकतया परिगृहीतार्थवाची, तदुक्तं न्यायपरिशुद्धौ "अथ सिद्धान्तः प्रामाणिक इत्यभ्युपगतोऽर्थः" इति । न्यायसारे च "प्रामाणिकतयाभीष्टस्सिद्धान्तः स विधा मतः" इति । स एव मतशब्दा. भिलप्यः । तत्र द्वयोर्भावः द्विता, द्वितैव द्वैतम् ; भेद इत्यर्थः । न द्वैतमद्वैतम् अभेदः। विशिष्टस्याद्वैतं विशिष्टाद्वैत स्वव्यतिरिक्तसमस्तचेतनाचेतनविशिष्टं ब्रह्मैकमेव तत्त्वमिति प्रतिपादनात् रामानुजीय मतं विशिष्टाद्वैतसिद्धान्त इति व्यपदिश्यते ॥
___ शङ्करादिभिः 'ब्रह्मैकमेव तत्त्वम्, तद्यतिरिक्तमखिलं मिथ्या' इति निरूपणात्तेषां मतम् अद्वैतसिद्धान्त इति व्यवह्रियते। आनन्दतीर्थीय मतं द्वैतमिति,तैः जगतो ब्रह्मणश्च पाल्यपालकभावसंबन्धाहते ऐक्यव्यपदेशयोग्यसम्बन्धविशेषानभ्युपाम्पत्,उभयोस्सत्यत्वाङ्गीकारा
For Private And Personal Use Only