________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् तयैव सिध्यन्नजडोऽहमर्थ एवाऽत्मा। ज्ञानस्यापि प्रकाशता तत्संबन्धायत्ता।तत्कृतमेव हि ज्ञानस्य सुखादेरिव स्वाश्रयचेतनं प्रति प्रकटत्वमितरं पत्यप्रकटत्वं च । अतो न ज्ञप्तिमात्रमात्मा अपि तु ज्ञातैवाहमर्थः॥ __ अथ यदुक्तम् ---अनुभूतिः परमार्थतो निर्विषया निराश्रया च सती भ्रान्त्या ज्ञातृतयाऽवभासते,रजततयेव शुक्तिः,निरधिष्ठानभ्रमानुपपत्तेःइति।तदयुक्तम् तथा सत्यनुभवसामानाधिकरण्येनानुभविताऽहमर्थः प्रतीयेत, 'अनुभूतिरहम् इति पुरोवस्थितभास्वरद्रव्याकारतया रजतादिरिव । अत्र तु पृथगवभासमानैवेयमनुभूतिरर्थान्तरमहमर्थ विशिनाष्टि, दण्ड इव देवदत्तम्। तथाहि 'अनुभवाम्यहम् इति प्रतीतिः। तदेवमस्मदर्थमनुभूतिविशिष्ट प्रकाशयन्ननुभवाम्यहमिति प्रत्ययो दण्डमात्रे 'दण्डी देवदत्तः'इति प्रत्ययवद्विशेषणभूतानुभूतिमात्रावलम्बनः कथमिव प्रतिज्ञायेत ? ॥
___ यदप्युक्तं- स्थूलोऽहमित्यादिदेहात्माभिमानवत एव ज्ञातृत्वप्रतिभासनात् ज्ञातृत्वमपि मिथ्या-इति।तदयुक्तम् ; आत्मतया अभिमताया अनुभूतेरपि मिथ्यात्वं स्यात् , तद्वत एव प्रतीतेः। सकलेतरोपमर्दितत्त्वज्ञानाबाधितत्वेनानुभूतेन मिथ्यात्वमितिचेत् । हन्तैवं सति तदबाधादेव ज्ञातृत्वमपि न मिथ्या ॥
यदप्युक्तम् --अविक्रियस्याऽत्मनो ज्ञानक्रियाकर्तृत्वरूपं ज्ञातृत्वं न संभवति । अतो ज्ञातृत्वं विक्रियात्मकं जडं विकारास्पदाव्यक्तपरिणामाहकारग्रन्थिस्थमिति न ज्ञातृत्वमात्मनः; अपित्वन्तःकरणरूपस्याहङ्कारस्य । कर्तृत्वादिर्हि रूपादिवद्दश्यधर्मः कर्तृत्वेऽहंप्रत्ययगोचरत्वे चाऽत्मनोऽभ्युपगम्यमाने देहस्येवानात्मत्वपराक्त्वजडत्वादिप्रसङ्गश्च इति नैतदुपपद्यते देहस्येवाचेतनत्वप्रकृतिपरिणामत्वदृश्यत्वपराक्त्वपरार्थत्वादियोगादन्तःकरणरूपस्याहङ्कारस्य, चेतनासाधारणस्वभावत्वाच ज्ञातृत्वस्य ॥
For Private And Personal Use Only