________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम्. काशः, दीपवत् । नहि दीपादेस्स्वप्रभावलनि सितत्वेनाप्रकाशत्वमन्याधीनप्रकाशत्वं च । किं तर्हि ११दीपस्वयंप्रकाशस्वभावस्स्वयमेव प्रकाशते; अन्यानपि प्रकाशयति प्रभया॥ ___ एतदुक्तं भवति यथैकमेव तेजोद्रव्यं प्रभाप्रभावद्रपेणावतिष्ठते। यद्यपि प्रभा प्रभावव्यगुणभूता। तथाऽपि तेजोद्रव्यमेव,न शौक्लयादिवद्गुणः। स्वाश्रयादन्यत्रापि वर्तमानत्वाद्रपवत्त्वाच्च शक्लियादिवैधात्, प्रकाशवत्वाच्च तेजोद्रव्यमेव ; नार्थान्तरम् । प्रकाशवत्वं च स्वस्वरूपस्यान्येषां च प्रकाशकत्वात् । अस्यास्तु गुणत्वव्यवहारो नित्यतदाश्रयत्वतच्छेषत्वनिबन्धनः॥
न चाऽश्रयावयवा एव विशीर्णाः प्रचरन्तः प्रभेत्युच्यन्ते, मणिधुमणिप्रभृतीनां विनाशप्रसङ्गात् ॥
दीपेऽप्यवयविप्रतिपत्तिः कदाचिदपि न स्यात् । नहि विशरणस्वभावावयवा दीपाश्चतुरङ्गलमात्र नियमेन पिण्डीभूता ऊर्ध्वमुद्गम्य ततः पश्चायुगपदेव तिर्यगृर्ध्वमधश्चैकरूपा विशीर्णाः प्रचरन्तीति शक्यं वक्तुम्॥
अतस्सप्रभाको एव दीपाः प्रतिक्षणमुत्पन्ना विनश्यन्तीति पुष्कलकारणक्रमोपनिपातात्तद्विनाशे विनाशाचावगम्यते । प्रभायास्स्वाश्रयसमीपे प्रकाशाधिक्यमौष्ण्याधिक्यमित्याग्रुपलब्धिव्यवस्थाप्यम् अग्न्यादीनामौष्ण्यादिवत् । एवमात्मा चिद्रप एव ३चैतन्यगुण इति । चिद्रपता हि स्वयंप्रकाशता॥
___ तथाहि श्रुतयः---४" स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव एवं वा अरेऽयमात्माऽनन्तरो बाह्यः कृत्स्नः प्रज्ञानघन एवं" ५"विज्ञानघन एव" ६“अत्रायं पुरुषस्स्वयंज्योतिर्भवति" "न विज्ञा
१. दीप: प्रकाशेत. पा. २. स्वप्रभयति, पा. ३. चैतन्यगुणक इति. पा. ४. बृ. ६. अ. ५. बा. १३. वा.
५. बृ. ४. अ. ४. ब्रा. १२. वा. ६. बृ. ६. अ. ३. बा. ९. वा. ७. नहि. इति. पा.
For Private And Personal Use Only