SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा, ४] प्रकृत्यधिकरणम् . तत्तभोगप्रदातुः प्रथयति हि विभोः कामतस्तत्मियत्वं दृष्टव्यश्चैष मुक्त्यै श्रुतिनिकरमितः प्रत्यभिज्ञाप्यतेऽत्र ॥ १२ व्युत्पत्या ह्यात्मशब्दः प्रथयति परमं ब्रह्म यद्वा समासात् सार्थोऽयं जीवशब्दो वदति च परमं द्वारवृत्त्येति पक्षाः। व्यक्त्यैक्यादाश्मरथ्यो निरुपधिकदशाद्वैततस्त्वौडुलोमिस्तत्स्थत्वात्काशकृत्स्नः परविषयतया जीवशब्दं जगाद ॥ १३ भेदोपाधिव्यपाये भवभृदयमियाब्रह्मतामित्ययुक्तं नित्यन्त ददृष्टेरतिपतितभवे साम्यसाधर्म्यनन्दात् । मृत्तकार्यक्रमश्च श्रुतिशतविहतस्तेन जीवोक्तिमीशे तत्स्थत्वात्काशकृत्स्नो यदिह निरवहयाससिद्धान्त एषः॥ १४ इति वाक्यान्वयाधिकरणम् ॥ ६ ॥ -- (अथ प्रकृत्यधिकरणम् ॥ ७॥) . मृत्पिण्डादेः कुलालप्रभृतिरिह पृथक्तद्वदेवादिकर्ता नोपादानं विकारैर्विरहत इति न द्वारमात्रे विकारात् । मृदृष्टान्तादिमात्रानच विकृतिरसौ स्यात् परस्य स्वरूपे देहद्वारोर्णनाभिप्रभृतिविकृतिवद्यापृतेर्दर्शितत्वात् ॥ १५ स्वज्ञानाद्यं स्वजन्यं भवति सृजति च स्वान्यसंयोगमीशस्संयोगे मूर्तनिष्ठे प्रकृतिरपि हि तत्स्यानिमित्तं क्रियातः । एकस्यादौ बहु स्यामिति बहुभवनं सौभरिन्यायसिद्धं भेदाभेदश्रुतीनामविहतिरिह च स्याद्विशिष्टैक्ययोगात् ॥ १६ कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः: स्रष्टस्स्यामित्यभिध्यां श्रुतिरिह वनतां वृक्षतादिं च वक्ति । आत्मानं चैष एव स्वयमकुरुत तद्भतयोनित्वमुक्तं तस्मात्कर्ताऽपि देवः प्रकृतिरपि भवेत् सर्वतत्त्वान्तरात्मा ॥ १७ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy