SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् [अ. १. इत्यूहादुज्जिहानं प्रशमयितुमथ प्रस्तुतो विश्वकर्ता जीवस्याप्यन्तरात्मा निरुपधिकमहानन्दथुस्स्थाप्यतेऽत्र ॥ ५८ दृष्टः पूर्व विकारे मयडिति चरमेऽप्येवमस्त्वित्ययुक्तं मधे तद्भङ्गदृष्टेः प्रचुरमिह वदेत् प्रत्ययोऽन्यस्य बाधात् । आनन्दमाचुरी च प्रकृतपरसुखाल्पत्वलब्धावधित्वादःखाल्पत्वानपेक्षा परदुरितभिदश्शासितुस्तद्विरोधात् ॥ ५९ आत्मा तस्यैष एवेत्युदितमनितरात्मत्वमस्यैव वक्तुं शारीरोक्तिश्च तस्मिन्निखिलतनुतया स्यादसङ्कोचवृत्तिः । शोध्यत्वन्तत्तदर्थानुगुणमिति विभोस्तत्प्रसाद्यत्वमात्र प्राप्येऽस्मिन्प्राप्तिरूपा परविद उपसंक्रान्तिरानन्दसिन्धौ ॥ ६० निर्देहेऽस्मिनिरंशे न हि भवति शिरःपक्षपुच्छादि किश्चितस्मात्पुच्छं प्रतिष्ठेत्युदितमिह परं ब्रह्म भातीति चेन्न । सोढापुच्छत्वकृप्तियदि कथमितरन्नानुमन्येत कल्प्यं ब्रह्मण्यात्मप्रतिष्ठा वचनमनितराधारताख्यापनाय ॥ ६१ इत्यानन्दमयाधिकरणम् ॥ ६ ॥ -- --...(अथान्तरधिकरणम् ॥ ७॥)...भूयिष्ठानन्तपुण्योपचयबलसमुद्धपूर्वोक्तभूम्नां शक्रादिन्यायतस्स्यात् त्रिगुणतनुभृतामीश्वराणां प्रवाहः। तन्नाकर्मोत्थदिव्याकृतिजनिमहिमा शासिता सर्वपुंसां नित्यश्रीध्नबिम्बे श्रुत इति स य इत्युक्त एवैष एकः॥ ६२ सर्वेभ्यः कल्मषेभ्यो ह्यदित इति वदत्यन्तरादित्यविद्या तस्माच्छेषाभ्यनुज्ञानयत इति विभोः पुण्ययोगोऽस्तु मैवम् । For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy