________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७४
श्रीशारीरकमीमांसामाध्ये अ. १. एतदुक्तं भवति-यथा वैश्वानरशब्दस्साधारणोऽपि परमात्मासाधारणधर्मविशेषितो विश्वेषां नराणां नेतृत्वादिना गुणेन परमात्मानमेवाभिदधातीति निश्चीयते ; एवमग्निशब्दोऽप्यग्रनयनादिना येनैव गुणेन योगाज्ज्वलने वर्तते, तस्यैव गुणस्य निरुपाधिकस्य काष्ठागतस्य परमात्मनि सम्भवादस्मिन्प्रकरणे परमात्मासाधारणधर्मविशेषितः परमात्मानमेवाभिधत्त इति ॥ २९ ॥
१“यस्त्वेतमेवं प्रादेशमात्रमभिविमानम्" इत्यपरिच्छिन्नस्य परस्य ब्रह्मणो द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वं कथमुपपद्यते-तत्राह
अभिव्यक्तेरित्याश्मरथ्यः।१।२।३० ॥
उपासकाभिव्यक्त्यर्थ प्रादेशमात्रत्वं परमात्मन इत्याश्मरथ्य आचार्यो मन्यते । 'चौमूर्धा आदित्यश्चक्षुः, वायुः प्राणः, आकाशो मध्यकायः, आपो वस्तिः, पृथिवी पादौ'इति झुप्रभृतिप्रदेशसम्बन्धिन्या मात्रया परिच्छिन्नत्वम् कृत्स्नमभिव्याप्तवता विगतमानस्य हभिव्यक्तेरेव हेतोभवति ॥३०॥
मूर्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति चेत्त त्राह
अनुस्मृतेर्बादरिः।१।२।३१ ॥ तथोपासमार्थमिति बादरिराचार्यों मन्यते । १“यस्त्वेतमेवमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति" इति ब्रह्मप्राप्तये झपासनमुपदिश्यते । एतमेवमितिउक्तप्रकारेण पुरुषाकारमित्यर्थः । सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु वर्तमानं यदनं भोग्यं तदत्ति-सर्वत्र वर्तमानं खत एवानवधि
१. छा. ५-१८-१॥
For Private And Personal Use Only