SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २] वैश्वानराधिकरणम् २७३ मित्रेतापरिकल्पनात्माणाहुत्याधारभावादन्तःप्रतिष्ठानाच्च वैश्वानरस्य जाठरत्वमपि प्रतीयत इति नैकान्ततः परमात्मत्वमिति चेत्____तन्न, तथा दृष्टयुपदेशात्-पूर्वोक्तस्य त्रैलोक्यशरीरस्य परस्य ब्रह्मणो वैश्वानरस्य जाठराग्निशरीरतया तद्विशिष्टस्योपासनोपदेशात् । अनिशब्दादिभिर्हि न केवलो जाठरः प्रतिपाद्यते ; अपितु जाठराग्निविशिष्टः परमात्मा । कथमिदमवगम्यत इति चेत्-असम्भवात्-जाठरस्य केवलस्य त्रैलोक्यशरीरत्वासम्भवात् । बैलोक्यशरीरतया प्रतिपन्नवैश्वानरसमानाधिकरणो जाठरविषयतया प्रतीयमानोऽग्निशब्दो जाठरशरीरतया तद्विशिष्टं परमात्मानमेवाभिदधातीत्यर्थः । यथोक्तं भगवता १“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यानं चतुर्विधम्" इति जाठरानलशरीरो भूत्वेत्यर्थः । अतस्तद्विशिष्टस्योपासनमत्रोपदिश्यते। किंच पुरुषमपिचैनमधीयते वाजसनेयिनः २“स एषोमिर्वैश्वानरो यत्पुरुषः" इति ; नहि जाठरस्य केवलस्य पुरुषत्वम् , परमात्मन एव हि निरुपाधिकं पुरुषत्वम् , यथा ३"सहस्रशीर्षा पुरुषः" ३"पुरुष एवेदं सर्वम्" इत्यादौ ॥ २७ ॥ अत एव न देवता भूतञ्च । ११२॥२८॥ उक्तेभ्य एव हेतुभ्यो देवतायाश्च तृतीयस्य महाभूतस्यापि न वैश्वानरत्वप्रसङ्गः॥ २८॥ साक्षादप्यविरोधं जैमिनिः । १॥२॥२९॥ वैश्वानरसमानाधिकरणस्याग्निशब्दस्य जाठराग्निशरीरतया तद्विशिष्टस्य परमात्मनो वाचकत्वम् , तथैव परमात्मन उपास्यत्वं चोक्तम् ! जैमिनिस्त्वाचार्यों वैश्वानरशब्दवदग्निशब्दस्यापि परमात्मन एव साक्षात् अव्यवधानेन वाचकत्वे न कश्चिद्विरोध इति मन्यते ॥ १.गी. १५.१४॥ २. । ३. पुरुषम् ॥ - 35 For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy