________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६४
[म. १.
इव नामरूपपरिष्वङ्गाभावात् केवलसच्छन्दाभिधेयमिति १" सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति" इत्युच्यते । तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राज्ञेनैव परिष्वङ्गात् २ "प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नाऽन्तरम्" इत्युच्यते । आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदयः । सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्तः पुनरपि र जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते -- ४" यदा' सुप्त - स्स्वयं न किञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति "८" तस्माद्वा ९ आत्मनः प्राणा यथायथं विप्रतिष्ठन्ते"; ११ तथा - १२" त इह व्याघ्रो सिंहो वा वृको वा वराहो वा देशो वा मशको वा यद्यद्भवन्ति तथा भवन्ति” इति च । तथा सुषुप्तं जीवं * “प्राज्ञेनाऽत्मना सम्परिष्वक्तः " इति च वदति ॥
१
शारीरकमीमांसाभाष्ये
१. छां - ६. प्र ८, ख - १॥
२. बृ- ६. अ-३. ब्रा - २१॥
३. जागरण. पा॥
४. कौषीतकी, ४. अ- १९ ॥
तस्मात् सच्छन्दवाच्यः परं ब्रह्म सर्वज्ञः परमेश्वरः पुरुषोत्तम एव । तदाह वृत्तिकारः ""सता सोम्य तदा सम्पन्नो भवति " इति, सम्पत्यसम्पत्तिभ्यामेतदध्यवसीयते " प्राज्ञेनाऽत्मना सम्परिष्वक्तः"
इति चाह - इति ॥ १० ॥
इतश्च न प्रधानम्-
Acharya Shri Kailassagarsuri Gyanmandir
गतिसामान्यात् । १।१॥११॥
७. कौषी. ४. अ- १९॥
८. एतस्मादात्मनः, एतस्माद्वा आत्मनः पा|| ९. यथायतनं पा|| १०. यथा. पा।। ११. छां ६. प्र ९. ख-३॥
१२. सिंहोवा वृकोवायाद्भवन्ति तथाभ. पा।। १३. तै. आनं-१ - अनु||
५. सुषुप्तः. पा॥ ६. कथश्वन. पा।। ६. अथहास्मिन् पा।।
For Private And Personal Use Only